तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
by आचार्य अभिनवगुप्त / राजानक जयरथ
Source: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (origin)
Page 197 of 368
Read in contextश्लोक १४६ ] प्रथमाह्निकम् । १८७ ल्पस्य आत्मानात्माख्यांशद्वयाक्षेपित्वेऽपि प्रतियोगि- निषेधपूर्वको योऽयं पौनःपुन्येन अंशरूपो निश्चयः तस्य यत् क्रमेण चर्चनं - यथायथं स्फुटताभावित्वादिना संस्करणं, ततो यत् विकल्प्यमानमात्मस्वरूपपरा- मर्शम् ‘इत्थमेव इदम्’ इत्येवं प्रतीतिमभिन्नां - साक्षात्कारात्मतामभ्येति, तज्ज्ञानोपायं विदुः- ज्ञानशक्तिस्फारात्मकं शाक्तमुपायं जानीयुः इत्यर्थः । तु-शब्दः पूर्वस्माद्व्यतिरेचकः । इह हि विकल्प एव क्रमेण निर्विकल्पतामेति इत्युक्तम् । तत्र पुनर्निर्विकल्पतयैव साक्षात्करणं रूपम् , अत एव च अनयोर्द्वारिद्वारभावः ॥१४७॥१४८॥ यत्तु तत्कल्पनाक्लृप्त- बहिर्भूतार्थसाधनम् । क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः ॥१४६॥ तथा तत् आत्मस्वरूपं क्रियोपायमाम्नातं - क्रिया- शक्तिस्फारात्मकाणवोपायसमधिगम्यं सर्वागमेषु पं० १ क० ग० पु० द्वयापेक्षितत्त्वेऽपीति पाठः । पं० ३ क० पु० संस्फुरणमिति पाठः । पं० १७ ख० पु० समाधिगम्यमिति पाठः ।