तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
by आचार्य अभिनवगुप्त / राजानक जयरथ
Source: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (origin)
Page 51 of 368
Read in contextश्लो० १८ ] प्रथमाह्निकम् । ४१ रूपत्वेन भेदषोडशात्मकमितरद्वक्त्रचतुष्टयं यदा युगपदन्तर्लीनतामेति तदैषां परस्परमेलनया चतुः- षष्टिरद्वयप्रधाना भैरवभेदाः । तदुक्तं 'यच्चान्ते दक्षिणं हार्दं लिङ्गं हृत्परमं मतम् । तदप्यन्तःकृताशेषस्प[सृ]ष्टभावसुनिर्भरम् ॥ सर्वसंहारकत्वाच्च कृष्णं तिमिररूपधृत् । भेदभावकमायीयतेजोऽशग्रसनात्मकम् ॥ तत्रान्तर्लीनतां याति यावद्वक्त्रचतुष्टयम् । उद्बुभूषु तथोद्भूतं तिरोधित्सु तिरोहितम् ॥ इत्थं युगपदेवैतद्भेदषोडशकात्मकम् । दक्षे वैसर्गिके हार्दे स्वतन्त्रेऽथ शिवे विशत् ॥ अष्टाष्टकात्म तच्छास्त्रं युगपद्भैरवाभिधम्।' इति। एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्त- रत उक्तम्। तद्यथा 'अन्यत्संक्षेपतो वक्ष्ये गीतं यत्परमेष्ठिना । तच्च भेदैः प्रवक्ष्यामि चतुःषष्टिं विभागशः ॥ पं० ३ ग० पु० उक्तंच इत्येवंविधः पाठः । पं० १२ ग० पु० अष्टाष्टकात्मकं शास्त्रमिति पाठः । पं० १४ ग० पु० तथाहीति पाठः । पं० १६ क० पु० चतुःषष्टिविभागश इति पाठः । ६