वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
by भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती)
Page 214 of 835
Read in contextसमासाश्रयविधिप्रकरणम् । ( १६३ ) पुत्रः ॥ बन्धुनि बहुव्रीहौ । ६।१।१४ ॥ बन्धुशब्दे उत्तरपदे ष्यङः संप्रसारणं स्याद्बहु- व्रीहौ ॥ कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धुः ॥ बहुव्रीहाविति किम् ? कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः । क्लीवनिर्देशस्तु शब्दस्वरूपापेक्षया ॥ मातज्मातृकमातृषु वा * ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारी- षगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः कव्वि- कल्पश्च । बहुव्रीहावेवेदम् । नेह-कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसाम- र्थ्याच्चित्स्वरो बहुव्रीहिस्वरं बाधते इष्टकेषीकामालानां चिततूलभारिषु । ६।३। ६६ ॥ इष्टकादीनां तदन्तानां च