वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
by भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती)
Page 229 of 835
Read in contextश्निनायनिर्द्रौणहत्यदैवत्यसारवैश्वाकमैत्रेयहिरण्मयानि । ६ । ४ । १७४ ॥ ए- तानि निपात्यन्ते ॥ इति युलोपः । मैत्रेयः । मैत्रेयौ ॥ A यस्कादिभ्यो गोत्रे । २।४।६३ ॥ एभ्योऽपत्यप्रत्ययस्य लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम् । मित्रयवः ॥ अत्रिभृगुकुत्स- वसिष्ठगोतमाङ्गिरोभ्यश्च । २।४।६५ ॥ एभ्यो गोत्रप्रत्ययस्य लुक् स्यात् तत्कृते बहुत्वे न तु स्त्रियाम् ॥ अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ॥ बह्वच इञः प्राच्यभरतेषु । २ । ४ । ६६ ॥ बह्वचः परो य इञ् प्राच्यगोत्रे भरतगोत्रे च वर्त्तमानस्तस्य लुक् स्यात् ॥ पन्नागाराः । युधिष्ठिराः ॥ न B गौपवनादिभ्यः । २।४।६७ ॥ एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् ॥ बिदाद्यन्तर्गणोऽयम् । गौपवनाः । शैग्रवाः ॥ C तिक- कितवादिभ्यो द्वन्द्वे । २।४।६८ ॥ एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् स्यात् द्वन्द्वे ॥ तैकायनायश्च कैतवायनायश्च तिकादिभ्यः फिञ् तस्य लुक् । तिककितवाः ॥ D उपकादि- भ्योऽन्यतरस्यामद्वन्द्वे । २।४।६९ ॥ एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुग्वा स्यात् द्वेन्द्वे चाद्वन्द्वे च ॥ औपकायनाश्च लामकायनाश्च नडादिभ्यः फक् तस्य लुक् । उपकलमकाः । औपकायनलामकायनाः । भ्र्राष्ट्रककपिष्ठलाः । भ्राष्ट्रिकापिष्ठलयः ॥ लमकाः । लामकायनाः॥ अगस्त्यकौण्डिन्योरगस्तिकुण्डिनच् । २ । ४ । ७० ॥ एतयोरवयवस्य गोत्रप्रत्य- यस्याऽणो यञश्च बहुषु लुक् स्यादवशिष्टस्य प्रकृतिभागस्य यथासंख्यमगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥ राजश्वशुराद्यत् । ४ । १ । १३७ ॥ राज्ञो जातावेवेति वाच्यम् * ॥ ये चाभावकर्मणोः । ६।४।१६८ ॥ यादौ तद्धिते परे अन् प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । श्वशुर्यः ॥ जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः ॥
A यस्क, लुह्य, दुह्य, अयःस्थूण, तृणकर्ण, सदामत्त, कम्बल, हार, बर्हिर्योग, कर्णाडक, पर्णाढक, पिण्डी- जङ्घ, बकसक्थ, विधि, अजवस्ति, कुद्रि, मित्रयु, रक्षोमुख, जङ्घारथ, उल्कास, कटुक, मन्थक, पुष्करसद्, विषपुट, उपरिमेखल, कोष्ठमान, कोष्ठपाद्, कोष्ठमाय, शीर्षमाय, खपर, पदक, वर्षुक, भलन्दन, भडिल, मण्डल, भडित, भाण्डत । इति यस्कादिः ॥ B अयं गणः चतुःसप्तत्यधिकशततमे १७४ पृष्ठे द्रष्टव्यः । स च हरितादिभ्यः प्रागेव ॥ C तिककितवाः, बंखरभण्डीरथाः उपकलमकाः, पफकनरकाः, बकनखगुदपरिणद्धाः, उब्जककुभाः, कलङ्कशान्तमुखाः, उत्तरशालङ्कट्यः, कृष्णाजिनकृष्णसुन्दराः, अभिवेशदशेरकाः । इति तिककितवादिः ॥ D उपक, लनक, भ्राष्ट्रक, कपिष्ठल, कृष्णाजिन, कृष्णसुन्दर, चूडारक, आडारक, गड्डुक, उदङ्क, सुधायुक, अबन्धक, पिङ्गलक, पिष्ट, सुपिष्ट, मयूरकर्ण, खरीजङ्घ, शलाथल, पतञ्जल, पदञ्चल, कण्ठेरणि, कुशीतक, काशकृत्स्न, निदाघ, कलशीकण्ठ, दामकण्ठ, कृष्णपिङ्गल, कर्णक, जटिरक, बधिरक, जन्तुक, अनुलोम, अनुपद्, प्रतिलोम, अपजग्ध, प्रतान, अनभिहित, कमक, वटारक, लेखाभ्र, कमन्दक, पिञ्जूलक, वर्णक, मसूरकर्ण, मदाघ, कवन्तक, क्रमन्तक, कदामन्त, दामकण्ठ । इति उपकादिः ॥
१ 'अद्वन्द्व इति द्वन्द्वाधिकारनिवृत्त्यर्थम्' इति वार्त्तिकेन 'प्रकृतसूत्रे 'द्वन्द्वे' इति नानुवर्तते' इति, बोधितम् । तत्फलितमाह-द्वन्द्वे चाद्वन्द्वे चेति ॥ २ 'लुक्' इत्यधिकारात् 'प्रत्ययस्य लुक्श्लुलुपो भवन्तीति प्रत्ययस्यैव भविष्यति । अवशिष्टस्यादेशौ भविष्यतः' इति भाष्यमनुसृत्याह- गोत्रप्रत्यस्येत्यादि ॥