वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
by भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती)
Page 231 of 835
Read in context( १८० ) सिद्धान्तकौमुद्याम्- वृद्धाट्ठक् सौवीरेषु बहुलम् ॥४।१।१४८ ॥ सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सौवीर- गोत्राद्यूनि बहुलं ठक् स्यात् कुत्सायाम् ॥ भागवित्तेर्भागवित्तिकः । पक्षे फक् । भागवित्ता- यनः॥ फेञ्छ च ॥४।१।१४९ ॥ फिञन्तात्सौवीरगोत्रादपत्ये छः ठक् च कुत्सने गम्ये ॥ यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्वात् फिञ् । तस्यापत्यं यामुन्दायनीयः । यामुन्दा- यनिकः ॥ कुत्सने किम् ? यामुन्दायनिः । औत्सर्गिकस्याणो १ण्यक्षत्रियेति लुक् ॥ सौवीरेति किम् ? तैकायनिः ॥ फाण्टाहतिमितमताभ्यां णफिञौ ॥४।१।१५० ॥ सौवीरेषु ॥ नेह यथासंख्यम् अल्पाच्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । फाण्टाहतः । फाण्टाहतायनिः । मैमतः । मैमतायनिः ॥ भाष्ये तु यथासंख्यमेवेति स्थितम् ॥ Aकुर्वादिभ्यो ण्यः ॥४।१।१५१ ॥ अपत्ये ॥ कौरव्या ब्राह्मणाः । वावदूक्याः ॥ सम्राजः क्षत्रिये * ॥ साम्राज्यः । साम्राजोऽन्यः ॥ सेनान्तलक्षणकारिभ्यश्च ॥४।१।१५२ ॥ एभ्यो ण्यः ॥ 'एति संज्ञायामिति सस्य षः । हारिषेण्यः । लाक्षण्यः । कारिः शिल्पी तस्मात् । तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥ उदीचांमिञ् ॥४।१।१५३ ॥ हारिषेणिः । लाक्षणिः । तान्तु- वायिः । कौम्भकारिः । नापितात्तु परत्वात् फिञेवे २। नापितायनिः ॥ तक्ष्णोऽण् उपसंख्या- नम् * ॥ ताक्ष्णः । पक्षे ताक्ष्यण्यः ॥ Bतिकादिभ्यः फिञ् ॥४।१।१५४ ॥ तैकायनिः ॥ कौसल्यकार्मार्याभ्यां च ॥४।१।१५५ ॥ अपत्ये फिञ् । इञोऽपवादः ॥ परंमप्रकृते- रेवायमिष्यते * ॥ प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः ॥ छागवृषयोरपि * ॥ छाग्यायनिः । वार्ष्यायणिः ॥ अणो द्व्यचः ॥४।१।१५६ ॥ अपत्ये फिञ् । इञोऽपवादः ॥ कात्र्यायणिः ॥ अण इति किम् ? A कुरु, गर्गर, मङ्गुष, अजमार, रथकार, वावदूक, 'सम्राजः क्षत्रिये' कवि, मति, कापिञ्जलादि, वाक्, वामरथ, पितृमत, इन्द्रजाली, एजि, वातकि, दामोष्णीषी, गणकारि, कैशोरि, कुट, शालाका, सुर, पुर, एडका, शुभ्र, अम्र, दर्भ, केशिनी, वेना छन्दसि, शूर्पणाय, श्यावनाय, श्यावरथ, श्यावपुत्र, सत्यङ्कार, वडभीकार, पथिकार, मूढ, शकन्धु, शङ्कु, शाक, शाकिन्, श्यालीन, कर्तृ, हर्तृ, इन, पिण्डी, तक्षन्, वामर- थस्य कण्वादिवत्स्वरवर्जम् । इति कुर्वादिः ॥ B तिक, कितव, संज्ञा, वाला, शिखा, उरस्, शल्य, सैंधव, यमुन्द, रूप्य, ग्राम्य, नील, अमित्र, गोकक्ष, कुरु, देवरथ, तैतिल, औरस, कौरव्य, भौरिकि, भौलिकि, मौलिकि, चौपत, चैटयत, शीकयत, क्षैतयत, व्यानवव, चन्द्रमस्, शुभ्र, गङ्गा, वरेण्य, सुयामन्, आरब्ध, बाह्यक, स्वल्प, वृष, लोमक, उदन्य, यज्ञ । इति तिकादिः ॥ १ छठकोः कुत्सायामेव विधानेन पूजायामप्राप्त्या 'तस्यापत्यम्' इत्युत्सर्गेणैव यूनि जातस्येत्यर्थः ॥ ण्यक्ष- त्रियेतीति । 'ण्यक्षत्रियार्षञितो यूनि लुगणिञोः' इति वक्ष्यमाणेनेत्यर्थः ॥ एवं चात्रैवास्थोपन्यासो युक्त इति भावः ॥ २ फिञेवेति । 'उदीचां वृद्धाद्गोत्रात्' इत्यनेनेति भावः ॥ ३ कौसल्यशब्दे तालव्य पाठोऽपीति केचित् ॥ ४ 'फिञ्प्रकरणे द्युगुकोसलकर्मारच्छागवृषाणां युट् चादिष्टस्य' इति वार्तिकमनुसृत्याह-परमप्रकृतेरिति । प्रकृतिरूपमिति । आयनादेशोत्तरमेव युडागमे आयनि प्राग्भागे यकारान्तरूपसिद्धौ तात्पर्यात्फलितकथनमेवेदमिति भावः ॥