वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
by भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती)
Page 305 of 835
Read in context( २५४ ) सिद्धान्तकौमुद्याम्- भ्यासस्य । ६।१।८ ॥ लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य ॥ भूव् भूव् अ इति स्थिते ॥ पूर्वोऽभ्यासः । ६।१।४ ॥ अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥ हलादिः शेषः । ७।४।६० ॥ अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते । ३इति वलोपः ॥ ह्रस्वः । ७।४।५९ ॥ अभ्यासस्याचो ह्रस्वः स्यात् ॥ भवतेरः । ७।४।७३ ॥ भवतेरभ्यासोकारस्य अः स्यात् लिटि ॥ अभ्यासे चर्च । ८।४।५४ ॥ अभ्यासे झलां चरः स्युर्जशश्च ॥ झशां जशः खरां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः, प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥ असिद्धव- दत्राभात् । ६।४।२२ ॥ इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समा