BharatKosha
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

by भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती)

DevanagariHindipublished835 pages

Page 710 of 835

Read in context
Page 710

अथ कौमुद्यन्तर्गतवार्त्तिकपाठः । पञ्चसन्धिप्रकरणम् । १-ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम् । २-समासप्रत्ययविधौ प्रतिषेधः । ३-उगिद्वर्ण- ग्रहणं वर्जम् । ४-यणः प्रतिषेधो वाच्यः । ५-यणो मयो द्वे वाच्ये । ६-तत्परे च । ७- वाहतजग्ध्योः । ८-गोर्यूतौ छन्दस्युपसङ्ख्यानम् । ९-अध्वपरिमाणे च । १०-अक्षादूहि- न्यामुपसंख्यानम् । ११-स्वादीरेरिणोः । १२-प्रादूहोढोढ्यैषैष्येषु । १३-ऋते च तृतीयास- मासे । १४-प्रवत्सतरकम्बलवसनानार्णदशानामृणे । १५-एवे चानियोगे । १६-शकन्ध्वादिषु पररूपं वाच्यम् । १७-ओत्वोष्ठयोः समासे वा । १८-एकाचो न । १९-डाचि बहुलं द्वे भवतः । २०-ऋति सवर्णे ऋ वा । २१-ऌति सवर्णे ऌ वा । २२ न समासे । २३- सिति च । २४-स्त्रियां न । २५-मोराजन्यविशां वेति वाच्यम् । २६-अनाम्नवतिनगरीणा- मिति वाच्यम् । २७-प्रत्यये भाषायां नित्यम् । २८-छत्वममीति वाच्यम् । २९-यव्लपरे यवला वेति वाच्यम् । ३०-चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् । ३१-संपुंकानां सो वक्तव्यः । ३२-समो वा लोपमेके । ३३-शरः खयः । ३४-खर्परे शरि वा विसर्गलोपो वक्तव्यः । ३५-पाशकल्पककाम्येष्विति वाच्यम् । ३६-अनव्ययस्येति वाच्यम् । ३७-काम्ये रोरेवेति वाच्यम् । ३८-मुहुसः प्रतिषेधः । ३९-कस्कादिषु च । ४०-रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् । ४१-अहरादीनां पत्यादिषु वा रेफः ॥ षड्‌लिङ्गप्रकरणम् । ४२-उभयोऽन्यत्र। ४३-अपुरीति वक्तव्यम्। ४४-विभाषाप्रकरणे तीयस्य ङित्सूपसंख्यान-