वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
by भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती)
Page 726 of 835
Read in context( ११८ ) उणादिसूत्रपाठे- त्लोपश्च । ८८ के अ एरङ् चास्य । ८९ त्रो दुट् च । ९० दरिद्रातेर्यालोपश्च । ९१ तृति शृध्योः कूः । ९२ ऋतेरम् च । ९३ अन्दूदम्भूजम्बूकफेल्दूकर्कन्धूदिधिषूः । ९४ मृगोरुतिः । ९५ ग्रो मुट् च । ९६ दृपेरुलच् । ९७ इसृहियुषिभ्य इतिः । ९८ ताडेर्णीलुक् च । ९९ शमेर्ढः । १०० कमेष्टः १०१ रमेर्वृद्धिश्च । १०२ शमेः खः । १०३ कणेष्ठः । १०४ कलस्तृपश्च । १०५ शपेर्वश्च । १०६ वृषादिभ्यश्चित् । १०७ मृजेट्टिलोपश्च । १०८ चुपेरच्चोपधायाः । १०९ शकिश- म्योर्निन् । ११० लो गुग्घ्रस्वश्च । १११ जमन्ताड्डः । ११२ क्रादिभ्यः कित् । ११३ स्थाच- तिमृजेरालञ्वलञ्जालीयचः । ११४ पतिचण्डिभ्यामालञ् । ११५ तमिव्रिशिविडिमृणिकुलिक- पिपलिपङ्गिभ्यः कालन् । ११६ पतेरङ्गच्पक्षिणि । ११७ तरत्यादिभ्यश्च । ११८ बिदादिभ्यः कित् । ११९ सुवृञोर्वृद्धिश्च । १२० गन्गम्योद्योः । १२१ छापूखडिभ्यः कित् । १२२ मृञः किन्नुट् च । १२३ शृणातेर्ह्रस्वश्च । १२४ गण्शकुनौ । १२५ मुदिग्रोर्गणौ । १२६ अण्ड- न्कूसुभ्रूजः । १२७ शूदृभ्सोऽडिः । १२८ दृणातेः घुग्घ्रस्वश्च । १२९ त्यजितनियजिभ्यो डित् । १३० एतेस्तुट् च । १३१ सर्तेरटिः । १३२ लंघेनर्लोपश्च । १३३ पारयतेरजिः । १३४ प्रथः कित्सम्प्रसारणं च । १३५ भियः घुग्घ्रस्वश्च । १३६ । युध्यसिभ्यां म दिक् । १३७ अर्तिस्तुसुहुसृधुक्षिक्षुमायावापदिषिक्षीनीभ्यो मन् । १३८ जहातेः सन्वदालोपश्च । १३९ अवतेष्टिलोपश्च । १४० ग्रसेरा च । १४१ अविसिविसिशुषिभ्यः कित् । १४२ इषि- युधीन्धिदसिस्थाधुसूभ्यो मक् । १४३ युजिरुचितिजां कुश्च । १४४ हन्तेर्हिं च । १४५ भियः षुग्वा । १४६ धर्मः । १४७ । ग्रीष्मः । १४८ प्रथेः ष्वन्सम्प्रसारणं च । १४९ अग्रपृषिलटिकणिखटिविशिभ्यः कन् । १५० दृशीभ्यां वण् । १५१ सर्वनिष्ठेश्वरिश्वल्बष्वशिव- पद्मह्रेश्वश्वा अस्वतन्त्रे । १५२ शेवयद्दजिहाग्रीवाण्वमीघाः । १५३ कृगृशृदृभ्यो वः । १५४ क- निन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः । १५५ सध्यशूभ्यां तुट् च । १५६ नञि जहातेः । १५७ श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिजन्मातरिश्वन्मघवन्निति ॥ इत्युणा- दिषु प्रथमः पादः ॥ १५८ कृहृभ्यामेणुः । १५९ हनिकुषिनीरमिकाशिभ्यः क्थन् । १६० अवे मूट्रनः । १६१ उषिकुषिगार्तिभ्यस्थन् । १६२ सर्तेर्णिन् । १६३ जृवृञ्भ्यामूथन् । १६४ पातुतुदिविचिरिचि- सिचिभ्यस्थक् । १६५ अर्तेर्निरि । १६६ निशीथगोपीथावगथाः । १६७ गश्चोदि । १६८ समीणः । १६९ तिथपृष्ठगूथयूथप्रोथाः । १७० स्फायितञ्चिव्रिश्चिक्षिक्विपिक्षुदिसृपि- तृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशी- ङ्बंहिसिसिधिशुभिभ्यो रक् ।