BharatKosha
वायु पुराण

वायु पुराण

Vayu Purana

by महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा

Source: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (origin)

DevanagariHindipublished465 pages

Page 104 of 465

Read in context
Page 104

[अ० ३० श्लो० १५९-१८२] वायुपुराणम् ९५ ( दक्षशापवर्णनम )

दक्षः प्रजापतिश्चैव नष्टः संभ्रान्तचेतनः । क्रुद्धेन वीरभद्रेण शिरः पादेन पीडितम् ॥ जराभिभूततन्विरात्मा निपपात महीतले ॥ १५९ त्रयस्त्रिंशद्देवतानां ताः कोटयो विमलात्मिकाः । पाशेनाग्निबलेनाऽऽशु बद्धाः सिंहबलेन च ॥ १६० ततो जग्मुर्महात्मानं सर्वे देवा महाबलम् । प्रसीद भगवन्नुद्र भृत्यानां मा क्रुधः प्रभो ॥ १६१ ततो ब्रह्मादयो देवा दक्षश्चैव प्रजापतिः । ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवानिति ॥ १६२

वीरभद्र उवाच--

न च देवो न चाऽऽदित्यो न च भोक्तुमिहाऽऽगतः । नैव द्रष्टुं हि देवेन्द्रान्न च कौतूहलान्वितः ॥ दक्षयज्ञविनाशार्थं संप्राप्तं विद्धि मामिह । वीरभद्र इति ख्यातं रुद्रकोपादिविनिर्गतम् ॥ १६४ भद्राकाली च विज्ञेया देव्याः क्रोधाद्विनिर्गता । प्रेषिता देवदेवेन यज्ञान्तिकमिहाऽऽगता ॥ १६५ शरणं गच्छ राजेन्द्र देवं तं त्वमुमापतिम् । वरं क्रोधोऽपि रुद्रस्य वरदानं न देवतः ॥ १६६ वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः । तोषयामास देवेशं शूलपाणिं महेश्वरम् ॥ १६७ प्रदुष्टे यज्ञवाटे तु विद्रुतेषु द्विजातिषु । तारामृगमये दीप्ते रौद्रे भीममहानले ॥ १६८ शूलनिर्भिन्नवदनैः कूजद्भिः परिचारिकैः । निखातोत्पाटितैर्यूपैरपविद्धैर्यतस्ततः ॥ १६९ उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृध्रुभिः । पक्षपातविनिर्धूतैः शिवाशतनिनादितैः ॥ १७० प्राणापानौ संनिरुध्य ततः स्थानेन यत्नतः । विचार्य सर्वतो दृष्टिं बहुदृष्टिरमित्राजित् ॥ १७१ सहसा देवदेवेशस्त्वग्निकुण्डादुपागतः । चन्द्रसूर्यसहस्रस्य तेजः संवर्तकोपमम् ॥ १७२ प्रहस्य चैनं भगवानिदं वचनमब्रवीत् । नष्टस्तेऽज्ञानतो दक्ष प्रीतिस्ते मयि सांप्रतम् ॥ १७३ स्मित कृत्वाऽब्रवीद्वाक्यं ब्रूहि किं करवाणि ते । आवितं च समाख्याय देवानां गुरुभिः सह ॥ १७४ तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः । भीतशङ्कितवित्रस्तः सबाष्पवदनेक्षणः ॥ १७५ यदि प्रसन्नो भगवान्यदि वाऽहं तव प्रियः । यदि वाऽहमनुग्राह्यो यदि देयो वरो मम ॥ १७६ यदग्धं भक्षितं पीताशितं यच्च नाशितम् । चूर्णिकृतं चापविद्धं यज्ञसंभारमदृशम् ॥ १७७ दीर्घकालेन महता प्रयत्नेन च संचितम् । तन्न मिथ्या भवेन्मह्यं वरमेतं वृणोम्यहम् ॥ १७८ तथाऽस्त्वित्याह भगवान्भगेनेत्रहरो हरः । धर्माध्यक्षं महादेवं त्र्यक्षं तं वै प्रजापतिः ॥ १७९ जानुभ्यामवनिं गत्वा दक्षो लब्ध्वा भवाद्धरम् । नाम्नामष्टसहस्रेण स्तुतवान्वृषभध्वजम् ॥ १८०

दक्ष उवाच--

नमस्ते देवदेवेश देवारिबलसूदन । देवेन्द्र समरश्रेष्ठ देवदानवपूजित ॥ १८१ सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ॥ सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ॥ १८२

वायु पुराण · Page 104 of 465 · BharatKosha