BharatKosha
वायु पुराण

वायु पुराण

Vayu Purana

by महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा

Source: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (origin)

DevanagariHindipublished465 pages

Page 312 of 465

Read in context
Page 312

[अ०८२श्लो०२८-५५] वायुपुराणम् । ३०३

( श्राद्धकल्पः )
ततः प्रवर्तयेच्छ्राद्धं यथाशक्तिबलाबलम् । कामान्स लभते दिव्यान्मोक्षोपायं च विन्दति ॥ २८
सवर्णा जातयो मित्रा बान्धवाः सुहृदश्च ये । तेभ्यो भूप गयाकूपे पिण्डा देया विधानतः ॥ २९
तेऽपि यान्ति दिवं सर्वे पिण्डदा इति नः श्रुतम् । अज्ञातनामगोत्राणां मन्त्र एष प्रकीर्तितः ॥ ३०
पितृवंशे समुत्पन्ना मातृवंशे तथैव च । गुरुश्वशुरबन्धूनां ये चान्ये बान्धवास्तथा ॥ ३१
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः । विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ॥ ३२
क्रियालोपगता ये च ये चान्ये गर्भसंस्थिताः । तेभ्यो दत्तो मया पिण्डो ह्यक्षय्यमुपतिष्ठताम् ॥ ३३
आत्मनस्तु महाबुद्धे गयायां तु तिलैर्विना । पिण्डानिर्वपणं कुर्यात्तथा चान्येऽत्र गोत्रजाः ॥ ३४
पुत्रेभ्योऽपि दुहितृभ्य इष्टेभ्योऽपि च सर्वशः । दद्यात्पिण्डं प्रयत्नेन बुद्धिमान्सुसमाहितः ॥ ३५
त्रिदिवं यान्ति ते सर्वे पिण्डदा इति च श्रुतिः । ब्रह्महा च कृतघ्नश्च महापातकिनश्च ये ॥ ३६
ते सर्वे निष्कृतिं यान्ति गयायां पिण्डपातनात् । ब्रह्मघ्नस्य सुरापस्य बालवृद्धगुरुद्रुहः ॥ ३७
नाशमायाति वै पापं गयायामनुयाति यः । यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥ ३८
दुर्लभं त्रिषु लोकेषु नास्ति तीर्थं गयासमम् । नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ॥ ३९
अपि नस्वे भविष्यन्ति कुले सन्मार्गशालिनः । गयामुपेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात् ॥ ४०
मकरे वर्तमाने तु ग्रहणे चन्द्रसूर्ययोः । प्रेतपक्षे च चैत्रे च दुर्लभं पिण्डपातनम् ॥ ४१
अधिमासे जन्मदिने चास्ते च गुरुशुक्रयोः । न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च बृहस्पतौ ॥
गयायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः ) ॥ ४२
( *गयायामक्षयं श्राद्धं जपहोमतपांसि च । पितृक्षयाहे ते पुत्र तस्मात्तत्राक्षयं स्मृतम् ॥ ४३
पुनीयादेकविंशं तु गौर्यामुत्पादितः सुतः । मातामहांस्तु षड्भूय इति तस्य फलं स्मृतम् ॥ ४४
फलं वृषस्य वक्ष्यामि गदतो मे निबोधत । वृषोत्सृष्टा पुनात्येव दशातीतान्दशावरान् ॥ ४५
यत्किंचित्स्पृश्यते तोयैरुत्तीर्णेन जलान्महिषि । वृषोत्सर्गे पितॄणां तु अक्षयं समुदाहृतम् ॥ ४६
यद्वाङ्गं संस्पृशेत्तोयं लाङ्गूलादिभिरन्ततः सर्वं तदक्षयं तस्म पितॄणां नात्र संशयः ॥ ४७
शृङ्गे खुरैर्वा यद्भूमिमुल्लिखत्यानिशं वृषः । मधुकुल्याः पितृस्तस्य अक्षयास्ता भवन्ति वै ॥ ४८
(× सहस्त्रनलमात्रेण तडाकेन यथा श्रुतिः । तृप्तिस्तृप्तिः पितॄणां वै तद्वृषस्याधिकोच्यते ॥ ४९
यो ददाति गुडैर्मिश्रांस्तिलान्वै श्राद्धकर्मणि । मधुना मधुमिश्रान्वा अक्षयं सर्वमेव तत् ॥ ५०

बृहस्पतिरुवाच--)

न ब्राह्मणान्परीक्षेत सदा देये तु मानवः । दैवे कर्मणि पित्र्ये च श्रूयते वै परीक्षणम् ॥ ५१
सर्ववेदव्रतस्नाताः पङ्क्तीनां पावना द्विजाः । ये च भाष्यविदो मुख्या ये च व्याकरणे रताः ॥ ५२
अधीयते पुराणं च धर्मशास्त्रं तथैव च । त्रिणाचिकेतपञ्चाग्नित्रिसुपर्णः षडङ्गवित् ॥ ५३
ब्रह्मदेयसुतश्चैव छन्दोगो ज्येष्ठसामगः । पुण्येषु येषु तीर्थेषु अभिषेककृतव्रताः ॥ ५४
मुख्येषु येषु सत्रेषु भवन्त्यवभृथप्लुताः । ये च सद्योव्रता नित्यं स्वकर्मनिरताश्च ये ॥
अक्रोधनाः शान्तिपरास्तान्वै श्राद्धे निमन्त्रयेत् ॥ ५५


* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । × धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।