वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
by सदानन्द योगीन्द्र
Source: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (origin)
Page 53 of 145
Read in contextसंस्कृतटीका-भाषाटीकासमेत । ( ५३ ) यार्द्धभागं परित्यज्य भागान्तेषु संयोजनम्। तदु- क्तम् “द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः॥ स्वस्वेतरद्वितीयांशैर्योजनात्पंचपंच ते” इति ५२ ( सं०टी० ) अथेदानीं स्थूलशरीरोत्पत्तिं निरूपयितुमप- क्रमते । स्थूलभूतानि त्विति । तुशब्दः पूर्वस्माद्वैषम्यं द्योत- यति । पंचीकृतानीति । अपंचीकृतसूक्ष्मभूतापेक्षया स्थूलभूता- नि पंचीकृतानीत्यर्थः । पंचीकरणमेव प्रतिपादयितुं प्रतिजानी- ते। पंचीकरणं त्विति। पंचीकरणप्रकारमेवाह। आकाशादीति। अयमर्थः । सृष्टिकाले सकलप्राण्यदृष्टवशादीश्वरप्रेरणयाका- शवायुतेजोबन्नान्यनाद्यविद्यासहायभूतात्परमात्मनः सकाशा- दनुक्रमजातानि तान्यपंचीकृतानि सूक्ष्माणि व्यवहारासमर्था- नीति कृत्वा तदीयस्थौल्यापेक्षायां व्यवहर्तृप्राणिजातधर्मा- धर्मापेक्षयैव तान्येव भूतानि पंचीकृतानि भवंति तानिच प्रत्येकं द्वैविध्यमापद्यंते तेष्वाकाशादिषु दशसु भागेषु प्राथमिका- न्पंचभागान्प्रत्येकं चतुर्धा समं विभज्य स्वार्धभागपरित्यागेन चतुर्णां प्रत्यकं भागांतरेषु संनिवेशेन पंचीकृतानि स्थूलानि भवतीति । अस्मिन्नर्थे वृद्धसंमतिमाह । द्विधेति ॥ ५२ ॥ ( भा०टी० ) इकट्ठेहुए आकाश आदि पञ्चभूतोंको स्थूल भूत कहते हैं इसी आकाशआदि पञ्चभूतोंके मध्यमेंसे प्रत्येक भूतको समान भाग करनेसे दश १० भाग होते हैं तदन्तर उन्ही दश भागके प्रथम पञ्चम भागको प्रत्येक पञ्चभूतके स- मान चार भाग करके उन्ही सम्पूर्ण प्रत्येक चार भागोंके द्वि-