वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 149 of 490
Read in contextप्रतिषिद्धा राजधर्माः । १५१ ब्रह्महा नरकं याति यावदाभूतसम्प्लवम् ॥ वर्षाणामयुतं राम पच्यते चावगूरिते । शोणितं यावतः पांसून् सङ्गृह्णाति द्विजन्मनाम् ॥ क्षतात्तावन्ति वर्षाणि क्षतकृन्नरके वसेत् । उपद्रुतो द्विजो येन त्यजेज्जीवितमात्मनः ॥ ब्रह्महत्या भवेत्तस्य नात्र कार्या विचारणा । इति । विष्णुः — स्वदत्तां परदत्तां च भुवं नापहरेद्ब्राह्मणेभ्यः । इति । मनुः — परामप्यापदं प्राप्तो ब्राह्मणं न प्रकोपयेत् । परामपि, कोषक्षयेण बलवद्राजविरोधेन चोत्कृष्टाम्, आपदं प्राप्तो राजा ब्राह्मणं न प्रकोपयेत् । तदीयधनाऽऽदानेन तदवग- णनया वा तन्मन्युं नोत्पादयेत् । ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ यैः कृतः सर्वभक्षोऽग्निरपेयश्च महोदधिः । क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान् ॥ लोकानलोकान् कुर्युस्ते लोकपालांश्च कोपिताः । देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ॥ यान्समाश्रित्य तिष्ठन्ति देवा लोकाश्च सर्वदा । ब्रह्मैव च धनं येषां को हिंस्यात्तान् जिजीविषुः ॥ प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् । एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं महत् ॥ श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । हूयमानश्च यज्ञेषु भूय एवाभिपूज्यते ॥ एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु ।