वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 151 of 490
Read in contextराज्ञो दिनकृत्यम् । १५३ विकर्मक्रियया नित्यं बाधन्ते भाद्रिकाः प्रजाः । द्यूतमेतत्पुराकल्पे दृष्टं वैरकरं महत् ॥ तस्मात् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् । प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः ॥ तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा । देवनसमाह्वयावित्यत्र देवनं द्यूतं च पर्यायौ । अप्राणिभिः, अक्षशलाकादिभिः । प्राणिभिः, मेषकुक्कुटादिभिः । तत्रापि प- णपूर्वं यत्क्रियते तदेव द्यूतं समाह्वयश्च । अपणपूर्वके तु न द्यूतसमाह्वयशब्दौ प्रवर्त्तेते । लोके तयोः क्रीडाशब्देनैव व्यव- हारात् । अत एव तयोर्लोके विगानाभावः । कुर्यात्कारयीत वेत्यत्र यः कितवो द्यूतसमाह्वयौ कुर्यात्, यश्च सभिकः का- रयीत, तान् सर्वान् राजा अपराधमपेक्ष्य घातयीत हस्तच्छेदा- दिना योजयीतेति वाक्यार्थः । द्विजलिङ्गिनः, यज्ञोपवीततिलका- दिब्राह्मणचिह्नधारिणः । यथेष्टम्, अपराधमपेक्ष्य राज्ञो यथा इच्छा भवति शारीरे दण्डे, द्रव्यग्रहणरूपे वा दण्डे, तथा स्यात्, स धर्म इत्यर्थः । इति राज्ञो निषिद्धा धर्माः । अथाभिषिक्तस्य राज्ञो दिनकृत्यम् । विष्णुधर्मोत्तरे— राम उवाच । अजस्रं कर्म मे ब्रूहि राज्ञो राजीवलोचन । यच्च कार्यं नरेन्द्राणां तथा च प्रतिवासरम् ॥ २०