वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 16 of 490
Read in context१० वीरमित्रोदयस्य राजनीतिप्रकाशे लोहाभिसारिकं कर्म गवोत्सर्गस्ततः परम् । वसोर्धाराऽथ शत्रूणां नाशकः कृत्तिकाप्लवः ॥ राजिकासर्षपाभ्यां च होम उक्तोऽरिनाशनः । विष्णुधर्मोत्तरोक्तं तत आथर्वणोदितम् ॥ घृतकम्बलमुक्त्वा च प्रकीर्णकमुदाहृतम् । राजनीतिप्रकाशाख्ये ग्रन्थेऽस्मिन् विदुषां मुदे ॥ श्रीमित्रमिश्रविदुषा क्रमेणैवं निरूपितम् । इति । तत्र महाभारते, युधिष्ठिर उवाच । श्रोतुमिच्छामि भगवन् विस्तरेण महामुने । राजधर्मान् द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥ इत्युपक्रम्य राजधर्मा उक्ताः । अग्निपुराणेऽपि, अग्निरुवाच । पुष्करेण च रामाय राजधर्म हि पृच्छते । यदादौ कथितं तद्वद्विशिष्टं कथयामि ते ॥ पुष्कर उवाच राजधर्मं प्रवक्ष्यामि स्याद्राजा राजधर्मतः । मनुस्मृतावपि, राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ इत्युपक्रम्य तत्र तत्र राजधर्मा उक्ताः । तत्र राजशब्दार्थ- स्तावद्विचार्यते । किमयं राजशब्दो यस्मिन् कस्मिंश्चित्प्रजापालके वर्त्तते, उत क्षत्रियजातौ, किंवा अभिषिक्तक्षत्रियजातौ वर्त्तत इति। तत्र अवेष्ट्यधिकरणे “राजा राजसूयेन स्वाराज्यकामो यजेत”