वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 160 of 490
Read in context१६२ वीरमित्रोदयस्य राजनीतिप्रकाशे वरुणक्षारसंयोगान्मत्स्यस्यास्थि विलीयते ॥ गण्डिकाभिः पलाशस्य क्षीरमावर्त्तितं द्रुतम् । कपित्थचूर्णयोगेन तथा चैव सुजानता । घृतं सुगन्धीभवति दग्धैः क्षिप्तैस्तथा यवैः ॥ पद्मवारिणि योगेन काञ्जिकस्याम्लता भवेत् । गुडाद्यं शुद्धिमाप्नोति क्षीरेण च तथा द्रुतम् ॥ पद्मरागसमं चूर्णमंशुमत्या च जायते । पानकानां महाभाग यस्याप्यन्यस्य चेच्छसि ॥ क्षारयोगेन चाम्लस्य तथाम्लत्वं विनश्यति । लवणाधिकविक्षेपसञ्जातविरसं ध्रुवम् ॥ सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात् । चणकक्षारयोगेन पुष्पाणि च फलानि च ॥ सर्वाणि द्रुतिमायान्ति द्रुतानां कल्पना भवेत् । गन्धवर्णरसाधानं पानकादिषु सर्वतः ॥ यथाकालं यथादेशं यथासात्म्यं च कारयेत् । नात्यर्थदीप्तेन हुताशनेन नात्यन्तमन्देन धमाद्यमन्नम् । रसेन चाप्यत्र भवेत्प्रभूतं तात्पर्यमेतत्कथितं मया ते ॥ इति। अद्यम् अदनार्हम् । धम संयोजय । विस्तरश्चास्य सूपशा- स्त्रादवगन्तव्यः । सविषान्नादेः परीक्षाप्रकारश्च- मत्स्यपुराणे, विषाच्च रक्ष्यो नृपतिस्तत्र युक्तिं निबोध मे । क्रीडानिमित्तं नृपतिर्धारयेन्मृगपक्षिणः ॥ अन्नं वै प्राक्परीक्षेत वह्नौ चान्यतमेषु च । वस्त्रं पात्रमलङ्कारं भोजनाच्छादने तथा ॥ नापरीक्षितपूर्वं तु स्पृशेदपि महीपतिः ।