वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 26 of 490
Read in context२० वीरमित्रोदयस्य राजनीतिप्रकाशे यथा सर्वाणि स्थावरजङ्गमानि उत्कृष्टनिकृष्टानि पृथिवी धार- यति तथा सर्वाणिकरदायिदीनानाथार्तादीनि रक्षणादिना धारय- तः पृथिवीसम्बन्धि व्रतम् । एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः । स्तेनान् राजा निगृह्णीयात्स्वराष्ट्रे पर एव च ॥ अतन्द्रितोऽनलसः । स्तेनान् चौरान् । इयं च पूर्वोक्तदे- वांशरूपता महाराजस्यैव । पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च ॥ इतीयं नारदोक्तपञ्चरूपता तु कियन्माण्डलिकस्य भूपस्य । अत एव— बृहत्पराशरेण, हर्यश्ववह्न्यन्तकविश्वनाथशीतांशुरूपाणि हि बिभ्रतीह । सर्वेऽपि भूपास्त्विह पञ्चरूपास्तत्कथ्यमानं शृणुत द्विजेन्द्राः॥ इत्यत्र सामान्यवाचि सर्वपदमुपात्तम् । हर्यश्व इन्द्रः । अ- ग्न्यादिकार्यकारित्वेन तत्तद्रूपतां द्रढयति— नारदः, कारणान्निर्निमित्तं वा यदा क्रोधवशं गतः । प्रजा दहति भूपालस्तदाग्निरभिधीयते ॥ बृहत्पराशरोऽपि, अकारणात्कारणतोऽपि चैष प्रजा दहेत्कोपसमिद्धरोचिः । यदा तदैनं नृपनीतिविज्ञास्तनूनपातं प्रवदन्ति भूपम् ॥ इति । अकारणादिति दुष्टनृपविषयम् । नारदः, यदा तेजः समालम्बेद्विजिगीषुरुदायुधः ।