BharatKosha
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)

DevanagariHindipublished490 pages

Page 263 of 490

Read in context
Page 263

निधिविषये विष्णुयाज्ञवल्क्योक्तयोर्व्यवस्थापनम् । २६७ विष्णुः, निधिं लब्ध्वा तदर्द्धं ब्राह्मणेभ्यो दद्यात्, द्वितीयमर्धं कोशे प्रवेशयेत् । इति । तच्छब्दात् यस्य स्वर्णादेरर्द्धीकरणं सम्भवति तस्यैवार्द्धं दद्यात्, न रत्नादेः, तस्य तु मूल्यकल्पनया दद्यात् इत्येवम- र्थः । तदुक्तम्— मनुना, निधीनां हि पुराणानां धातूनामेव च क्षितौ । अर्द्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ इति । “द्वितीयमर्द्धं कोशे प्रवेशयेत्” इति पृथक्सूत्रकरणं कोशे स्थापनविधानार्थं, स्वामिन्यागते तद्दानावश्यम्भावात् । द्विजो, ब्राह्मणः क्षत्रियो वैश्यश्च श्रुताध्ययनसम्पन्नः सदाचारो निधिं लब्ध्वा, तं राज्ञे निवेद्य सर्वं गृह्णीयात्। अविदुषामेतेषां विशेष उक्तो- विष्णुना, निधिं ब्राह्मणो लब्ध्वा सर्वमादद्यात, क्षत्रियश्चतुर्थमंशं रा- ज्ञे दद्याच्चतुर्थमंशं ब्राह्मणेभ्योऽर्द्धमादद्यात्, वैश्यस्तु चतुर्थमंशं राज्ञे दद्याद्ब्राह्मणेभ्योऽर्द्धं चतुर्थमंशमादद्यादिति । अत्र ब्राह्मण इति सामान्यवचनाद्योगीश्वरवाक्ये ब्राह्म- णांशे विद्वत्त्वमविवक्षितम् । इतरेण, शूद्रेण, लब्धे निधौ राजा तस्मै षष्ठमंशं दद्याच्छेषं गृह्णीयादिति व्याख्येयम् । अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्धरेदधिगन्त्रे षष्ठ- मंशं प्रदद्यात् — इति वसिष्ठस्मरणात्, निध्यधिगमो राजधनं न ब्राह्मणस्याभिरूपस्य, अब्राह्म- णोऽप्याख्याता षष्ठमंशं लभेतेत्येके— इति गौतमस्मरणाच्च । तथा च शूद्राय षष्ठं दत्त्वा शेषं