वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 265 of 490
Read in contextस्वामिना स्वत्वे विभाविते निधिः परावर्त्यः । २६९ विष्णुः, अनिवेदितविज्ञातस्य सर्वमपहरेदिति । अनुलोमजानां मूर्द्धावसिक्तादीनां क्षत्रियादिवन्निर्णयो मातृसमानधर्मत्वात् । प्रतिलोमजानां तु शूद्रवत् शूद्रसमानधर्म- त्वादिति । यदा निधेः स्वामी आगत्य रूपसङ्ख्यादिभिः स्वत्वं विभावयति तदा तस्मै निधिं दद्यात्, षष्ठं द्वादशं वांशं राजा गृह्णीयात् । यथाऽऽह— मनुः, ममायमिति यो ब्रूयान्निधिं सत्येन मानवः तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ इति । षष्ठं द्वादशं वा इति विकल्पस्तु धनस्वामिनः सगुणत्वनि- र्गुणत्वापेक्षया कालापेक्षया वा द्रष्टव्यः । इदं च भागग्रहणं ब्राह्मणभिन्नादेव । यथाऽऽह— विष्णुः, स्वनिहितात् ब्राह्मणवर्जं द्वादशमंशं दद्युरिति । केचित्तु विष्णुवाक्यात् क्षत्रियादयो द्वादशं, ब्राह्मणः षष्ठं दद्यादित्याहुः । तच्चिन्त्यम् । यदा राजा निधिस्वामिन्यागते निधिं परावृत्य दद्यात्तदा ब्राह्मणाय दत्तं निध्यर्द्धं परावृत्य गृह्णीयात् । यथाऽऽह— बृहस्पतिः, अस्वामिविक्रयं दानमाधिं च विनिवर्तयेदिति। परकीयं निधिं स्वीयमिति वदन् राज्ञा तन्निधिसमं दण्डनी- य इत्युक्तम्— विष्णुना, परनिहितमिति ब्रुवंस्तत्समं दण्डमावहेदिति । ब्रुवन्, स्वनिहितमिति ब्रुवन् इत्यर्थः । आकरेषु विशेषमाह— विष्णुः, आकरेभ्यः सर्वमादद्यात् । इति । आकराः, सुवर्णरत्नाद्युत्पत्तिस्थानानि । विष्णुधर्मोत्तरे,