वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 267 of 490
Read in contextकरग्रहणस्यावश्यकत्वम् । २७१ कात्यायनः, भूस्वामी तु स्मृतो राजा नान्यद्रव्यस्य सर्वदा । तत्फलस्य हि षड्भागं प्राप्नुयान्नान्यथैव तु ॥ भूतानां तन्निवासित्वात्स्वामित्वं तेन कीर्त्तितम् । तत्क्रियाबलिषड्भागं शुभाशुभनिमित्तजम् ॥ इति । अस्यार्थः। राजा, भुवः स्वामी स्मृतः । अन्यद्रव्यस्य, भू- मिसम्बद्धद्रव्यस्य, न स्वामी । अन्यथा, भूमिसाम्याभावे । भूता- नां, प्राणिनाम् । तन्निवासित्वात्, भूनिवासित्वात्। स्वामित्वं, राज्ञ इति शेषः । इत्यतः तत्क्रियाबलिषड्भागं प्राप्नुयात् । विष्णुरपि, राजा च प्रजाभ्यः सुकृतदुष्कृतेभ्यः षष्ठांशभाक् । इति । तथा च मनुः, पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् । अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ इति । यत्तु— अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्किल्बिषं प्रजाः । तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् ॥ इति याज्ञवल्क्यस्मरणं, तदत्यन्तारक्षणविषयम् । तस्मात्क- रादानं दृष्टादृष्टार्थत्वेनावश्यकम् । तेनैव च राज्ञो वृत्तिः । तथाच- गौतमः, राज्ञोऽधिकं रक्षणं सर्वभूतानाम् । सर्वग्रहणादश्वत्थच्छेदाद्यपि परिहार्यम् । अधिकेन वृत्तिः । अधिकं रक्षणमित्युक्तं, तद्वारेण यदधिगतं करादिद्रव्यं तदधिकं, तेन वृत्तिः, पोष्यवर्गस्य हस्त्यश्वादीनां च पोषणम् । अनेन आपदोऽन्यत्र पूर्वसञ्चितेन न जीवेदित्युक्तम् । तथा च-