वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 273 of 490
Read in contextसप्ताङ्गेषु दण्डमित्रे । २७७ स्वल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥ इति । विष्टिः, बलात्कारेणाकृष्टः कर्मकरः । दैशिका, देशे भवाः पुरुषाः । इति दण्डः । अथ मित्रम् । याज्ञवल्क्यः, हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥ इति । मनुः, हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते । यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिकषमम् ॥ धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥ इति । अस्य त्रैविध्यमुक्तम्- मत्स्यपुराणे, पितृपैतामहं मित्रं सामन्ताश्च तथा रिपोः । कृत्रिमं च महाभाग त्रिविधं मित्रमुच्यते ॥ तत्रापि च गुरुः पूर्वं भवेत्तत्रापि चाहृतः । सामन्तास्तु तस्य पीडया शत्रुत्वमापन्नाः । अत एव विष्णु- धर्मोत्तरे-“अमित्रं च तथा रिपोः” इति पाठः । आहृतः, कृ- त्रिमः । इममेव प्रशंसति- व्यासः, न कश्चित्कस्य चिन्मित्रं न कश्चित्कस्य चिद्रिपुः । सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ इति । महाभारते,