वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 387 of 490
Read in contextयात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः। ३९१ पचारैः छत्रचामरादर्शादिराजोपचारैश्च यथाविभवं स्थापन- क्रमेण काण्डानुसमयेन पदार्थांनुसमयेन वा यथाशक्ति पूजनं कृत्वा सपत्नीकयजमानसहितः पुष्पाञ्जलिं दत्त्वा नमोऽन्तै- र्नाममन्त्रैः प्रत्येकं पायसबलिं च दत्त्वा दण्डवत्प्रणमेदाचा- र्यः । अस्मिन्नेव च समये कैश्चित्सहायैः सहितः पुरोहितो रुद्रक्षेत्रे तदभावे रुद्राभिषेकार्थमेव कृते प्रतिष्ठापितमण्डपदेवते मण्डपे बाणलिङ्गमूर्तिं महादेवं लिङ्गपुराणगतेन विष्णुप्रोक्तेन भवादिशिवनामसहस्रेण यथाविभवं सम्पूज्य सपत्नीकयजमा- नसहितः पुष्पाञ्जलिं दत्त्वा क्षीरेण दध्ना पञ्चगव्येन वा पूरितं ताम्रमयं मृन्मयं वा कलशसहस्रं पूर्वोक्तविधिना तदग्रे स्थापयित्वा सर्वेषु कलशेषु ब्रह्मकूर्चान्निक्षिप्य तत्कलशस्थितक्षी- रादिना ब्रह्मकूर्चैस्तमेव महादेवं रुद्राध्यायं पठन्नभिषेचये- त् । ततो महादेवस्यानुज्ञया तदभिषेकावशिष्टेन क्षीरादिना “ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्यः शर्वस- र्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः” इत्यघोरमन्त्रेण, “त्र्यम्बकं यजा- महे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमा- मृतात्” इति त्र्यम्बकमन्त्रेण वा राजानमभिषिञ्चेत्पुरोहित एव । अघोरमन्त्रस्य सांहितीर्देवता उपनिषद ऋषयः रुद्रो देवता स्वरा- डनुटुप्छन्दः राज्ञोऽभिषेके विनियोगः । त्र्यम्बकमन्त्रस्य वसिष्ठ ऋषिर्मृत्युञ्जयरुद्रो देवताऽनुष्टुप् छन्दः । विनियोगः स एव । ततः प्रधानमण्डपे पूर्वाग्नेयादिदिग्विदिग्गतेष्वष्टसु कुण्डेषु स्थण्डि- लेषु वा ब्रह्मसहिता होतारोऽष्टौ पूर्वेशान्यन्तरालगते कुण्डे स्थ- ण्डिले वा आचार्यो नृप एव पुरोहितो वा ब्रह्मसहितो यथास्वगृह्य- मग्निप्रतिष्ठादिप्रधानहोमप्राचीनमङ्गकाण्डं कृत्वा प्रधानहोमसमये अघोरमन्त्रेण त्र्यम्बकमन्त्रेण वा घृतपलाशसमिदाज्यचरुलाजशा-