वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 53 of 490
Read in contextविष्णुधर्मोत्तरोक्तराजाभिषेकः । ५१ पञ्चगव्येन, जलेन कुशोदकेन च । ततो भद्रासनगतं मुख्यामात्यचतुष्टयम् । बलप्रधानं भूपालमभिषिञ्चेद्यथाविधि ॥ पूर्वतो हेमकुम्भेन घृतपूर्णेन वाडवः । वाडवो ब्राह्मणः । दक्षिणे क्षीरपूर्णेन रौप्यकुम्भेन क्षत्रियः ॥ दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमतस्तथा । कौबेर्यां मधुकेनाथ छन्दोगोऽथ कुशोदकैः ॥ मधुना कुशोदकैश्च छन्दोगः । सम्पातवन्तं कलशं तथाऽऽहृत्य पुरोहितः । विधाय वह्निरक्षां तु सदस्येषु यथाविधि ॥ विधाय वह्निरक्षाम्–वह्निं रक्षध्वमित्युक्त्वा । राजसूयाभिषेके तु ये मन्त्राः परिकीर्त्तिताः ॥ ते च मन्त्रा वक्ष्यन्ते । तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वरेण तु । स्वरेण मन्त्रघोषेण । ततः पुरोहितो गच्छेद्वेदिमूलं तथैव तु ॥ वेदिमूलं कुण्डम् । विभूषितं तु राजानं संस्थितं भद्र आसने । भद्रासनलक्षणम्– देवीपुराणे, हैमं च राजतं ताम्रं क्षीरवृक्षमयं च वा । भद्रासनं च कर्त्तव्यं सार्द्धहस्तसमुच्छ्रितम् ॥ सपादहस्तमानं च राज्ञो माण्डलिकान्तरात् ।