वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 56 of 490
Read in context५४ वीरमित्रोदयस्य राजनीतिप्रकाशे मन्त्राः सुरास्त्वा इत्यादयो वक्ष्यमाणाः । ततः पश्येन्मुखं राजा दर्पणे वापि सर्पिषि ॥ सोष्णीषः सितवस्त्रश्च मङ्गलालम्भनं ततः । कृत्वा सम्पूजयेद्विष्णुं ब्रह्माणं शङ्करं तथा ॥ लोकपालं ग्रहांश्चैव नक्षत्राणि च भार्गव । ततः स्वपूजां कुर्वीत शयनीयं ततो व्रजेत् ॥ व्याघ्रचर्मोत्तरं रम्यं सितवस्त्रोत्तरच्छदम् । पुरोधा मधुपर्केण तत्रस्थं तं समर्पयेत् ॥ राजाऽऽदौ चार्चयेत्तत्र सांवत्सरपुरोहितौ । मधुपर्केण धर्मज्ञस्ततस्तस्य स दैववित् ॥ पट्टबन्धं प्रकुर्वीत मुकुटस्य च बन्धनम् । पट्टलक्षणं तु— देवीपुराणे, सर्वस्नानमलङ्कारं रोचनारुष्यं च पट्टकम् । वृद्ध्याऽब्ध्यङ्गुलमङ्गुल्या षट्त्रिंशदङ्गुलावधि ॥ वृत्तं वा चतुरस्रं वा पञ्चकत्रिकगर्भितम् । वत्सेशपद्ममत्स्येभगोस्वस्तिकविनायकैः ॥ श्रीश्रीवृक्षवराहेभस्वामिदेवीशुभान्वितम् । अब्ध्यङ्गुलं सप्ताङ्गुलम्, अङ्गुल्या एकया सहितमष्टाङ्गुलम् इत्येकं पट्टलक्षणम्, तदारभ्य सप्ताङ्गुलकृतवृद्ध्या चत्वारि लक्षणानि, एवं पञ्चविधः । तस्य दैर्घ्यार्धेन मध्यदेशविस्तारः, तदर्धेन प्रान्तद्वयविस्तारः । स एवं वृत्तः कोणरहितश्चतुरस्रो वा । वत्सेशः श्रीवत्सधारी विष्णुः । इभो हस्ती, महामात्राधि- ष्ठितः । गौः स्त्रीगवी । केवल एव हस्ती वृषभश्च निषिद्धो— विश्वकर्मणा,