वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 8 of 490
Read in context२ वीरमित्रोदयस्य राजनीतिप्रकाशे शुण्डास्फालनविह्वलैः स्तुत इव व्यालैर्वियत्प्लाविभिः ॥ मज्जत्कुम्भमहावगाहनकृतारम्भो महाम्भोनिधौ हेरम्बः कुरुतां कृताम्बरकरालम्बश्चिरं वः शिवम् ॥ ५ ॥ समन्तातपश्यन्ती समसमयमेव त्रिभुवनं त्रिभिर्नेत्रैर्दौर्भिर्दशभिरपि पान्ती दश दिशः ॥ दधाना पारीन्द्रोपरि चरणमेकं परपदा हतारिर्वो हन्यान्महिषमथनी मोहमहिषम् ॥ ६ ॥ वामान् भिन्दन्नवामान् भुवमनुसुखयन् पूरयन्नर्थिकामान् श्रीमान् भीमानुकारी बहलबलभरैर्मेदिनीमल्लनामा ॥ आसीदाशीविषेन्द्रद्युतिधवलयशा भूपचक्रावतंसः श्रीकाशीराजवंशे विधुरिव जलधौ सर्वभूसार्वभौमः ॥७॥ सङ्ग्रामग्रामकामो निरुपममहिमा सत्त्वविश्रामधाम क्रामन्नेवारिचक्रं मिहिर इव तमो विक्रमोरुक्रमेण ॥ सारैर्मेरोरुदारैरपर इव गिरिर्मेदिनीमल्लनेन प्रख्यातः क्षोणिचक्रे समजनि नृपतिर्मेदिनीमल्लनामा ॥ ८॥ निर्यद्भिस्तर्ज्जयद्भिर्विधुमिव जगतीमर्जुनाभैर्यशोभिः सम्पूर्यावार्यवीर्यो विशिखवितरणैरर्जुनो दुर्ज्जनानाम् ॥ साम्राज्योपार्जनश्रीरगणितगुणभूरर्जुनप्रांशुबाहु— र्नाम्नाऽभूदर्जुनोऽस्मान्नरपतिरतुलो मेदिनीमल्लभूपात् ॥ ९॥ बुद्धिः शुद्धिमती क्षमा निरुपमा विद्याऽनवद्या मनो गाम्भीर्यैकनिकेतनं वितरणं दीनार्त्तिनिद्दारणम् ॥ आसीदर्जुनभूपतेर्विदधतो विद्रावणं विद्विषां भूमीनामवनं च कारणगुणात्कार्यं यशोऽप्यर्जुनम् ॥१०॥ तस्मादाविरभूतप्रभूतमहिमा भूमीपतेरर्जुनात् सौजन्यैकनिधिर्गुणैरनवधिर्लावण्यवारां निधिः ॥