याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
by महर्षि याज्ञवल्क्य
Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)
Page 418 of 782
Read in context३६२ याज्ञवल्क्यस्मृतिः किंच, यदा पुनर्जातानुशयः क्रेता पण्यं न जिघृक्षति तदा विक्रीतमपि पण्यमन्यत्र विक्रेयम् , यदा पुनर्विक्रेत्रा दीयमानं क्रेता न गृह्णाति, तच्च पण्यं राजदैविकेनोपहतं, तदा क्रेतुरेवासौ हानिर्भवेत्; पण्याग्रहणरूपेण क्रेतृदोषेण नाशितत्वात् ॥ २५५ ॥ भाषा—यदि पहले वाला क्रेता पण्य ( सौदा ) न ले तो बिके हुए पण्य को भी दूसरे के हाथ बेच दे । यदि इसी बीच ( जब विक्रेता दे रहा हो और क्रेता न लेता हो ) उस वस्तु में क्रेता के दोष से हानि हो जाय तो उसे क्रेता को ही सहन करना होता है ॥ २५५ ॥ राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥ २५६ ॥ अपि च, यदा पुनः क्रेत्रा प्रार्थ्यमानमपि पण्यं विक्रेता न समर्पयति, अजातानुशयोऽपि, तच्च राजदैविकेनोपहतं, भवति, तदासौ हानिर्विक्रेतुरेव । अतोऽन्यददुष्टं पण्यं विनष्टसदृशं क्रेत्रे देयम् ॥ २५६ ॥ भाषा—यदि क्रेता पण्य मांग रहा हो और विक्रेता उसे वह पण्य न देता हो; तथा इसी बीच राजकृत या दैवकृत उत्पात से उस वस्तु में दोष आ जावे तो यह हानि विक्रेता की ही होती है ॥ २५६ ॥ अन्यहस्ते च विक्रीय दुष्टं वाऽदुष्टवद्यदि । विक्रीणीते दमस्तत्र ३मूल्यात्तु द्विगुणो भवेत् ॥ २५७ ॥ किंच, यः पुनर्विनेवानुशयमेकस्य हस्ते विक्रीतं पुनरन्यस्य हस्ते विक्रीणीते सदोषं वा पण्यं प्रच्छादितदोषं विक्रीणीते, तदा तत्पण्यमूल्याद् द्विगुणो दमो वेदितव्यः । नारदेनाप्यत्र विशेषो दर्शितः ( ८।८ )—‘अन्यहस्ते च विक्रीय योऽन्यस्मै तत्प्रयच्छति । द्रव्यं तद्द्विगुणं दाप्यो विनयंस्तावदेव तु ॥ निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति । स मूल्याद् द्विगुणं दाप्यो विनयं ताव- देव तु ॥’ इति ॥ सर्वश्चायं विधिर्दत्तमूल्ये पण्ये द्रष्टव्यः । अदत्तमूल्ये पुनः पण्ये वाङ्मात्रक्रये क्रेतृविक्रेत्रोर्नियमकारिणः समयादृते प्रवृत्तौ निवृत्तौ वा न कश्चिद्दो- षः। यथाह नारदः ( ८।१० )—‘दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः । अदत्तेऽन्यत्र समयान्न विक्रेतुरविक्रयः ॥’ इति ॥ २५७ ॥ भाषा—जो एक के हाथ बेची गई वस्तु को पुनः दूसरे व्यक्ति के हाथ बेचता है अथवा दोषपूर्ण वस्तु को निर्दोष वस्तु बनाकर बेचता है तो उससे राजा वस्तु के मूल्य का दुगुना दण्ड लेवे ॥ २५७ ॥ १. पण्यदोष । २. सदृशं । ३. मूल्याच्च ।