BharatKosha
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

by महर्षि याज्ञवल्क्य

Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)

DevanagariSanskritpublished782 pages

Page 428 of 782

Read in context
Page 428

३७२ याज्ञवल्क्यस्मृतिः भाषा—बलपूर्वक बन्दी को छुड़ाने वाले, घोड़ा और हाथी चुराने वाले और किसी का बलपूर्वक घात करने वाले पुरुषों को शूली पर चढ़ावे ॥२७३॥ उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ । कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ २७४ ॥ किंच, वस्त्राद्युत्क्षिपत्यापहरतीत्युत्क्षेपकः, वस्त्रादिबद्धं स्वर्णादिकं विस्रम्भोत्कृत्य वा योऽपहरत्यसौ ग्रन्थिभेदकः, तौ यथाक्रमं करेण सन्दंशसदृशेन तर्जन्याऽङ्गुष्ठेन च हीनौ कार्यौ । द्वितीयापराधे पुनः करश्च पादश्च करपादं, तच्च तदेकं च करपादैकं, तद्धीनं ययोस्तौ करपादैकहीनकौ कार्यौ । उत्क्षेपकग्रन्थिभेदकयो- रेकमेकं करं पादं च छिन्द्यादित्यर्थः । एतदप्युत्तमसाहसप्राप्तियोग्यद्रव्यविषयम् । ‘तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः’ ( १४।८ ) इति नारदवचनात् ॥ तृतीयापराधे तु वध एव । तथा च मनुः ( ९।२७७ )—‘अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥’ इति । जातिद्रव्य- परिमाणतो मूल्याद्यनुसारतो दण्डः कल्पनीय इति ॥ २७४ ॥ भाषा—उत्क्षेपक (वस्त्र आदि चुराने वाले उचक्का) और ग्रन्थिभेद (गिरहकट के क्रमशः हाथ और संदंश ( तर्जनी एवं अंगूठा ) काट लेना चाहिए। दुबारा अपराध में उसका एक हाथ और एक पैर भी काट देना चाहिए ॥ २७४ ॥ जातिद्रव्यपरिमाणपरिग्रहविनियोगवयःशक्तिगुणदेशकालादीनां दण्डगुरुलघु- भावकारणानामानन्त्यात्प्रतिद्रव्यं वक्तुमशक्तेः सामान्येन दण्डकल्पनोपायमाह— क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः । देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ २७५ ॥ क्षुद्राणां मध्यमानामुत्तमानां च द्रव्याणां हरणे सारतो मूल्याद्यनुसारतो दण्डः कल्पनीयः । क्षुद्रादिद्रव्यस्वरूपं च नारदेनोक्तम् । ( १४।१४-१६ ) ‘मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् । शमीधान्यं कृतान्नं च क्षुद्रं द्रव्य- मुदाहृतम् ॥ वासः कौशेयवर्ज्यं च गोवर्ज्यं पशवस्तथा । हिरण्यवर्ज्यं लोहं च मध्यं व्रीहियवा अपि ॥ • हिरण्यरत्नकौशेयस्त्रीपुङ्भोगजवाजिनः । देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयमुत्तमम् ॥’ त्रिप्रकारेष्वपि द्रव्येष्वौत्सर्गिकः प्रथममध्यमोत्तम- साहसरूपो दण्डनियमस्तेनैव दर्शितः ( १४।२१ )—‘साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः । स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥’ इति ॥ मृन्मयेषु मणिकमल्लिकादिषु गोर्वाजिंव्यतिरिक्तेषु च महिषमेषादिपशुषु ब्राह्मण- संबन्धिषु च कनकधान्यादिषु तारतमभावोऽस्तीति उच्चावचदण्डविशेषाकाङ्क्षायां १. हस्तपादौ तु । २. गोव्यतिरिक्तेषु । ३. तारतम्यभावोऽस्तीति ।