BharatKosha
Back to the archive

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

by महर्षि याज्ञवल्क्य

Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)

DevanagariSanskritpublished782 pages

अथाशौचप्रकरणम्

Page 448Permalink

प्रायश्चित्ताध्यायः अथाशौचप्रकरणम् गृहस्थाश्रमिणां नित्यनैमित्तिका धर्मा उक्ताः । अभिषेकादिगुणयुक्तस्य गृहस्थविशेषस्य गुणधर्माश्च प्रदर्शिताः । अधुना तदधिकारसंकोचहेतुभूताशौच- प्रतिपादनमुखेन तेषामपवादाः प्रतिपाद्यन्ते । 'आशौच'शब्देन च कालस्नाना- द्यपनोद्यः पिण्डोदकदानादिविधेः अध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुष- गतः कश्चनातिशयः कथ्यते, न पुनः कर्मानधिकारमात्रम् । 'अशुद्धा बान्धवाः सर्वे' ( मनुः ५।५८ ) इत्यादावशुद्धत्वाभिधानात् । 'अशुद्ध'शब्दस्य च वृद्ध- व्यवहारेऽनाहिताग्निदीक्षितादावनधिकारिमात्रे प्रयोगाभावात् वृद्धव्यवहार- व्युत्पत्तिनिबन्धनत्वाच्च शब्दार्थावगतेः । किंच यद्याशौचिनां दानादिनिषेध- दर्शनात्तदययोग्यत्वमाशौचशब्दाभिधेयं कल्प्यते तर्हि उदकदानादिविधिदर्शनात् तद्योग्यत्वमप्याशौचशब्दाभिधेयं स्यात् तत्रानेकार्थकल्पनादोषप्रसङ्ग इत्युपेक्षणी- योऽयं पक्षः ॥ तत्राशौचिभिः सपिण्डाद्यैर्यत्कर्तव्यं तत्तावदाह— ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः । आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्वृतः ॥ १ ॥ यमसूक्तं तथा गाथा जपद्भिर्लौकिकाग्निना । स दग्धव्य उपेतश्चेदाहिताग्न्यावृत्तार्थवत् ॥ २ ॥ ऊने अपरिपूर्णे द्वे वर्षे यस्यासावूनद्विवर्षस्तं प्रेतं निखनेत् भूमाववटं कृत्वा निदध्यान्न पुनर्द्दहेदित्यर्थः । न च 'सकृत्प्रसिञ्चन्त्युदकम्' ( प्रा. ४ ) इत्यादिभिः प्रेतोद्देशेन विहितमुदकदानाद्यौर्ध्वदेहिकं कुर्यात् । अयं च गन्धमाल्यानुप- लेपनादिभिरलंकृत्य शुचौ भूमौ श्मशानादन्यत्रास्थिसंचयरहितायां बहिर्ग्रामा- न्न्निखननीयः । यथाऽऽह मनुः ( ५।६८-६९ )—'ऊनद्विवार्षिकं प्रेतं निदध्यु- र्बान्धवा बहिः । अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥ नास्य कार्योंऽग्नि- संस्कारो नापि कार्योदकक्रिया । अरण्ये काष्ठवत्त्यक्त्वा क्षिपेयुस्त्रयहमेव तु ॥' इति । 'अरण्ये काष्ठवत्त्यक्त्वा' इत्यस्यायमर्थः-यथाऽरण्ये काष्ठं त्यक्त्वो- दासीनास्तद्विषये भवन्ति तथोनद्विवार्षिकमपि खातायां भूमौ परित्यज्य तद्विषये श्राद्धाद्यौर्ध्वदेहिकेषु उदासीनैर्भवितव्यमित्याचारादिप्राप्तश्राद्धाद्यभावोऽ- नेन दृष्टान्तेन सूच्यते । स च घृतेनाभ्यज्य यमगाथाः पठद्भिर्निधातव्यः । १. अत्राशुद्धशब्दस्य च व्यवहारेणाहिताग्नि । २. आश्मशानमनु- ब्राज्य । ३. म्र्तः । ४. नास्य । ५. शवश्च । ६. गायद्भिः ।

Page 449Permalink

'ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद्भुविः । यमगाथा गायमानो यमसूक्त- मनुस्मरन् ॥' इति यमस्मरणात् ॥ ततस्तस्मादूनद्विवार्षिकादितरपूर्णद्विवर्षो यो मृतोऽसौ श्मशानपर्यन्तं ज्ञातिभिः सपिण्डैः समानोदकैश्च ज्येष्ठः पुरः- सरैरनुव्रज्येोऽनुगन्तव्यः । अस्मादेव वचनादूनद्विवर्षस्यानुगमनमनियमिति गम्यते । अनुगम्य च 'परेयिवांसम्' (ऋ० ७, अ० ६, । १४, ५, ६ ) इत्यादि यमसूक्तं यमदैवत्या गाथाश्च जपद्भिर्लौकिकेनासंस्कृतेनाग्निना दग्धव्यो यदि जातारणिर्नास्ति । तत्सद्भावे तु तन्मथितेन दग्धव्यो न लौकिकेन । तस्याग्निसंपादककार्यमात्रार्थत्वेनोत्पत्तेः । लौकिकाग्निश्च चण्डालादि- व्यतिरिक्तो ग्राह्यः; 'चण्डालाग्निरमेध्याग्निः सूतिकाग्निश्च कर्हिचित् । पतिता- ग्निश्चित्ताग्निश्च न शिष्टग्रहणाचिताः ॥' इति देवलस्मरणात् ॥ लौगाक्षिणा चात्र विशेष उक्तः- 'तूष्णीमेवोदकं कुर्यात्तूष्णीं संस्कारमेव च । सर्वेषां कृतचूड़ानाम- न्यत्रापीच्छया द्वयम् ॥' इति अयमर्थः- 'चौलकर्मानन्तरकाले नियमेनाग्न्युद- कदानं कार्यम् । अन्यत्रापि नामकरणादूर्ध्वं अकृतचूडेऽपीच्छया प्रेताभ्युदयकाम- नया द्वयं अग्न्युदकदानात्मकं तूष्णीं कार्यं, न नियमेनेति विकल्पः । मनुनाप्यत्र विशेषो दर्शितः ( ५।७० )- 'नाग्निवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातद- न्तस्य वा कुर्यान्नाम्नि वाऽपि कृते सति ॥' इति । 'उदकग्रहणं' साहचर्यादग्निसं- स्कारस्याप्युपलक्षणार्थम् । 'नाग्निवर्षस्य' इति वचनात् । कुलधर्मापेक्षया चूड़ो- त्कर्षेऽपि वर्षत्रयादूर्ध्वमग्न्युदकदानादिनियमोऽवगम्यते । लौगाक्षिवचनाद्वर्षत्रया- त्प्रागपि कृतचूडस्य तयोर्नियम इति विवेचनीयम् । उपेतश्चेद्यद्युपनीतस्तर्हि आहिताग्न्यावृता २ आहिताग्नेर्दाहप्रक्रियया स्वगृह्यादिप्रसिद्धया लौकिकाग्निनेव दग्धव्यः । अर्थवत्प्रयोजनवत् । अयमर्थः- यद्यस्य क्लृप्तं दाहद्वारं कार्यरूपं प्रयोजनं सम्भवति । भूमिजोषणाप्रोक्षणादि तदुपादेयम् । यत्पुनलुंप्तप्रयोजनं पात्रयोजनादि तन्निवर्तते । तथा लौकिकाग्निविधानेनोपनीतस्य अनाहिताग्ने- गृ॑ह्याग्निना दाहविधानेन च अपहृतप्रयोजनत्वादहवनीयाद्रेरपि निवृत्तिरिति ॥ अन्यन्तरविधानं च वृद्धयाज्ञवल्क्येनोक्तम्- 'आहिताग्निर्यथान्यायं दग्धव्यस्त्रि- भिरग्निभिः । अनाहिताग्निरेकेन लौकिकेनापरो जनः ॥' इति । न च शूद्रेण श्मशानं प्रति अग्निकाष्ठादिनयनं कार्यम् ; 'यस्यानयति शूद्रोऽग्निं तृणं काष्ठं हवींषि च । प्रेतत्वं हि सदा तस्य स चाधर्मेण लिप्यते ॥' इति यमस्मरणात् ॥ तथा दाहश्च स्नपनाद्यनन्तरं कार्यः- 'प्रेतं दहेच्छुभैर्गन्धैः स्नापितं स्त्रग्विभूषि- तम्' इति स्मरणात् । प्रचेतसाऽप्युक्तम्-स्नानं प्रेतस्य पुत्राद्यैर्वस्त्राद्यैः पूजनं

१. उदकदानात्मकं । २. आहिताग्नेर्दानप्रक्रियया । ३. आहि- ताग्नेः स्वगृह्याग्निना ।

Page 450Permalink

३६४ याज्ञवल्क्यस्मृतिः तथा । नग्नं दहेन्नैव किंचिद्देयं परित्यजेत् ॥' इति; किंचिद्देयमिति शववस्त्रैक- देशं श्मशानवास्यर्थं देयं परित्यजेदित्यर्थः ॥ तथा प्रेतनिर्हरणेऽपि मनुना विशेषो दर्शितः (५।१०४) - 'न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् । अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसंपर्कदूषिता ॥' अत्र च स्वेषु तिष्ठत्सु इत्यविवक्षितम् । अस्वर्ग्यत्वादिदोषश्रवणात् ॥ - 'दक्षिणेन मृतं शूद्रं परद्वारेण निर्हरेत् । पश्चिमो- त्तरपूर्वैस्तु यथासंख्यं द्विजातयः ॥' तथा हारीतोऽपि- 'न ग्रामाभिमुखं प्रेतं हरेयुः' इति ॥ यदा तु प्रोषितमरणे शरीरं न लभ्यते तदास्थिभिः प्रतिकृतिं कृत्वा तेषामप्यलाभे पर्णशरैः शौनकादिगृहोक्तमार्गेण प्रतिकृतिं कृत्वा संस्कारः कार्यः । आशौचं चात्र दशाहादिकमेव । 'आहिताग्निश्चेत्प्रवसन्म्रियेत पुनः संस्कारं कृत्वा शववदाशौचम्' (४।३७) इति वसिष्ठस्मरणात् । अनाहिताग्निस्तु त्रिरात्रम् ; 'सुपिष्टैर्जलसंमिश्रैर्दग्धव्यश्च तथाग्निना । असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा स बान्धवैः ॥ एवं पर्णशरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ॥' इति वचनात् ॥ ततश्चा- यमर्थः- 'नामकरणादर्वाङ्निखननमेव, न चोदकदानादि । तत ऊर्ध्वं यावत्त्रिवर्षं वैकल्पिकमग्न्युदकदानम् । ततः परं यावदुपयनं तूष्णीमेवाग्न्युदकदानं निय- तम् । वर्षत्रयात्प्रागपि कृतचूडस्य । उपनयनादूर्ध्वं पुनराहिताग्न्यावृता दाहं कृत्वा सर्वमौर्ध्वदेहिकं कार्यम् । अयं तु विशेषः- उपनीतस्य लौकिकाग्निना दाहः कार्यः । अनाहिताग्नेर्गृह्याग्निना दाहो यथासंभवं पात्रयोजनं च कार्यम् ॥१-२॥ भाषा-दो वर्ष से कम आयु वाले बालक के मरने पर उसे भूमि में गाड़ देना चाहिए और उसके लिए उदकदान (प्रेत को उद्दिष्ट कर दी जाने वाली उदकांजलि) नहीं करना चाहिए। उससे अधिक आयु वाले के मरने पर जाति वालों (सपिण्डों) के साथ श्मशान तक (शव के पीछे-पीछे) जावें। यमसूक्त और गाथा का पाठ करते हुए (यदि मृत व्यक्ति अग्निहोत्री न रहा हो तो) लौकिक अग्नि से उसका दाह करे; यदि उसका यज्ञोपवीत हुआ हो तो अपने गृह्य में बताई गई लौकिक अग्नि से प्रयोजन के अनुसार दाह करे ॥ १-२ ॥ संस्कारानन्तरं किं कर्तव्यमित्यत आह- सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः । अप नः शोशुचदघमनेन पितृदिङ्मुखाः ॥ ३ ॥ सप्तमाद्दिवसादर्वाग्दशमदिवसाद्वा ज्ञातयः समानगोत्राः सपिण्डाः समा- नोदकाश्च 'अप नः शोशुचदघम्' (ऋ. सं. १।७।५) इत्यनेन मन्त्रेण दक्षिणा- मुखाः अपः अभ्युपयन्ति । अभ्युपगमनेन तत्प्रयोजनभूतोदकदानविशिष्टमभ्युप- गमनं लक्ष्यते; 'एवं मातामहाचार्य-' (प्रा० ४) इत्यनन्तरमुदकदानस्यातिदेश-

Page 451Permalink

दर्शनात् । एतच्चायुग्मासु तिथिषु कार्यम् । 'प्रथमतृतीयपञ्चमसप्तमनवमेषूदक- क्रिया' (१४।४०) इति गौतमस्मरणात् ॥ एतच्च स्नानानन्तरं कार्यम् ; 'शरीरमग्नौ संयोज्यानवेक्षमाणा अपोऽभ्युपयन्ति' इति शातातपस्मरणात् ॥ तथा प्रचेतसाप्यत्र विशेषो दर्शितः—'प्रेतस्य बान्धवा यथावृद्धमुदकमवतीर्य नोद्धर्ष- येयुरुदकान्ते प्रसिञ्चेयुरपसव्ययज्ञोपवीतवाससो दक्षिणाभिमुखा ब्राह्मणस्योद- ङ्मुखाः प्रत्यङ्मुखाश्च राजन्यवैश्ययोः' इति । स्मृत्यन्तरे तु यावन्त्याशौचदिनानि तावदुदकदानस्यावृत्तिरुक्ता । यथाऽऽह विष्णुः (१९।१३) - 'यावदाशौचं ताव- त्प्रेतस्योदकं पिण्डं च दद्युः' इति ॥ तथा च प्रचेतसाप्युक्तम्—'दिने दिनेऽञ्ज- लीन्पूर्णान्प्रदद्यात्प्रेतकारणात् । तावद्वृद्धिश्च कर्तव्या यावत्पिण्डः समाप्यते ॥' इति । प्रतिदिनमञ्जलीनां वृद्धिः कार्या, यावद्दशमः पिण्डः समाप्यत इत्यर्थः ॥ यद्यप्यनयोर्गुरु लघुकल्पयोरन्यतरानुष्ठानेनापि शास्त्रार्थः सिद्धस्तथापि बहुक्लेशाव- हस्त्वेन गुरुतरकल्पे प्रवृत्त्यनुपपत्तेः प्रेतस्योपकारातिशयो भविष्यतीति कल्पनी- यम् । अन्यथा गुरुतरकल्पाऽऽम्नायस्यानर्थक्यप्रसङ्गात् ॥ वसिष्ठेनापि विशेषोऽभि- हितः । (४।१२) - 'सव्योत्तराभ्यां पाणिभ्यामुदकक्रियां कुर्वीरन्' इति ॥ ३ ॥ भाषा—सातवें या दसवें दिन से पहले समान गोत्रवाले या सपिण्ड पुरुष जल के समीप जाकर 'अप नः शोशुचदघम्' इस मन्त्र से पितरों की दिशा दक्षिण की ओर मुख करके उदकदान करें ॥ ३ ॥ वक्ष्यमाणसकृत्प्रसेकस्य नामगोत्रादिभिर्गुणैर्विशिष्टस्योदकदानस्यासमान- गोत्रेषु मातामहादिष्वतिदेशमाह— एवं मातामहाचार्यप्रेतानामुदकक्रिया । कामोदकं सखिप्रेतास्वस्त्रीयश्वशुरर्त्विजाम् ॥ ४ ॥ यथा सगोत्रसपिण्डानां प्रेतानामुदकं दीयते तथा मातामहानामाचार्याणां च प्रेतानां नित्यमुदकक्रिया कार्या । सखा मित्रं, प्रत्ताः परिणीता दुहितृभगि- न्यादयः, स्वस्त्रीयो भागिनेयः, श्वशुरः प्रसिद्धः, ऋत्विजो याजकाः, एतेषां सख्यादीनां प्रेतानां कामोदकं कार्यम् । काम इच्छा, कामेनोदकदानं कामोदकं, प्रेताभ्युदयकामनायां सत्यामुदकं देयम् ; असत्यां न देयमिति अकरणे, प्रत्यवायो नास्तीत्यर्थः ॥ ४ ॥ भाषा—इसी विधि से मातामह (नाना) और आचार्य के लिए भी उदकदान किया जाता है । इच्छानुसार मित्र, विवाहिता पुत्री या बहन, भागिनेय, श्वशुर और ऋत्विज् के लिए भी उदकदान करे ॥ ४ ॥

१. प्राङ्मुखाश्च । २. कल्पनीयस्या । ३. स्य समान । ३. प्रेतानां चोदकक्रिया । ४. प्रत्तस्वस्त्रीय ।

Page 452Permalink

३६६ याज्ञवल्क्यस्मृतिः उदकदाने गुणविधिमाह— सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः । तच्चोदकदानमित्थं कर्तव्यम्—सपिण्डाः समानोदकाश्च मौनिनो भूत्वा प्रेतस्य नामगोत्रे उच्चार्य 'अमुकनामा प्रेतोऽमुकगोत्रस्तृप्यतु' इति सकृदेवोदकं प्रसिञ्चेयुः त्रिर्वा; १'त्रिः प्रसेकं कुर्युः प्रेतस्तृप्यतु'इति प्रचेतःस्मरणात् ॥ प्रतिदि- नमञ्जलिवृद्धिस्तु प्रतिपादितेव । तथा अयमपि विशेषस्तेनैवोक्तः—'नदीकूलं ततो गत्वा शौचं कृत्वा यथार्थवत् । वस्त्रं संशोधयेदादौ ततः स्नानं समाचरेत् ॥ सचैलस्तु ततः स्नात्वा शुचिः प्रयतमानसः । पाषाणं तत आधाय विप्रे दद्याद्द- शाञ्जलीन् ॥ द्वादश क्षत्रिये दद्याद्वैश्ये पञ्चदश स्मृताः । त्रिंशच्छूद्राय दातव्या- स्ततः संप्रविशेद् गृहम् । ततः स्नानं पुनः कार्यं गृहशौचं च कारयेत् ॥' इति ॥ सपिण्डानां मध्ये केषांचिदुदकदानप्रतिषेधमाह— न ब्रह्मचारिणः कुर्यु रुदकं पतितास्तथा ॥ ५ ॥ ज्ञातित्वे सत्यपि ब्रह्मचारिणः समावर्तनपर्यन्तं, पतिताश्च प्रच्युतद्विजातिक- र्माधिकाराः, उदकादिदानं न कुर्युः ॥ ब्रह्मचर्योत्तरकालं पूर्वमृतानां सपिण्डा- दीनां उदकदानमाशौचं च कुर्यादेव । यथाह मनुः (५।८८)—'आदिष्टौ नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तूदकं कृत्वा त्रिरात्रमशुचिर्भवेत् ॥' इति । आदिष्टी 'ब्रह्मचार्यसि अपोशान कर्म कुरु दिवा मा स्वाप्सीः' ( आश्व० १।२२। २ ) इत्यादिव्रतादेशयोगाद् ब्रह्मचार्युच्यते । एतच्च पित्रादिव्यतिरेकेणेति वक्ष्यति । 'आचार्यपितृपाध्यायान्' ( प्रा० १५ ) इति । अत्राचार्यः पुनरेवं मन्यते—आदिष्ट्रीति प्रक्रान्तप्रायश्चित्तः कथ्यते, तस्यैवायमुदकदानादिनिषेधः प्रायश्चित्तरूपव्रतस्य समाप्त्युत्तरकालमुदकदानाशौचविधिरिति । तथा क्लीबादीनां चोदकदायित्वं निषिद्धम् ; 'क्लीबाश्च नोदकं कुर्युः स्तेना व्रात्या विधर्मिणः । गर्भभर्तृद्रुहश्चैव सुराप्यश्चैव योषितः ॥' इति वृद्धमनुस्मरणात् ॥ ५ ॥ भाषा—( सपिण्ड लोग ) मौन होकर गोत्रसहित प्रेत ( मृत व्यक्ति ) का नाम लेकर एक बार ( या तीन बार ) उदकाञ्जलि दें । ब्रह्मचारी और पतित व्यक्ति उदकदान न करें ॥ ५ ॥ एवमुदकदाने कर्तृविशेषप्रतिषेधमुक्त्वा संप्रदानविशेषेण प्रतिषेधमाह— पाँषण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः । सुराप्य ५आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ ६ ॥ १. प्रत्येकं कुर्युः । २. आदाय । ३. त्रिरात्रेणैव शुद्ध्यति । ४. पाष- ण्डाना । ५. आत्मघातिन्यो ।

Page 453Permalink

प्रायश्चित्ताध्यायः ३६७ नरशिरःकपालादिश्रुतिबाह्यलिङ्गधारणं पाखण्डम्, तद्विद्यते येषां ते पाखण्डिनः; अनाश्रिताः अधिकारे सत्यप्यकृताश्रमविशेषपरिग्रहाः । स्तेनाः सुवर्णाद्युत्तमद्रव्यहारिणः, भर्तृघ्न्यः प्रतिघातिन्यः, कामगाः कुलटाः, 'आदि'ग्रहणात् स्वगर्भब्राह्मणघातिन्यो गृह्यन्ते । सुराप्यो यासां या सुरा प्रतिषिद्धा तत्पानरताः । आत्मत्यागिन्यः विषाम्युदकोद्वन्धनाद्यैरात्मानं यास्त्यजन्ति । एते पाखण्ड्यादयः 'त्रिरात्रं दशरात्रं वा' ( प्रा० १८ ) वक्ष्यमाणस्याशौचस्योदकदानाद्यौर्ध्वदै- हिकस्य च भाजना न भवन्ति । भाजयन्तीति भाजनाः; सपिण्डादीनामाशी- चादिनिमित्तभूता न भवन्ति; अतस्तन्मरणे सपिण्डैरुदकदानादि न कार्यमित्ये- तत्प्रतिपादनपरं वचनम् । अत्र 'सुराप्य' इत्यादिषु लिङ्गमविवक्षितम् १।-'लिङ्गं च वचनं देशः कालोऽयं कर्मणः फलम् । मीमांसाकुशलाः प्राहुरनुपादेय- पञ्चकम् ॥' इत्यनुपादेयगतत्वात् । एतच्च बुद्धिपूर्वविषयम् ; यथाह गौतमः ( १४।१२ )—'प्रायोऽनाशकशस्त्राग्निविषोदकोद्वन्धनप्रपतनैश्चेच्छताम्' इति । प्रायो महाप्रस्थानम् , अनाशकमनशनम् , गिरिशिखरादवपातः प्रपतनम् । अत्र चेच्छतामिति विशेषणोपादानात्प्रमादकृते दोषो नास्तीत्यवगन्तव्यम् ; 'अथ कश्चित्प्रमादेन म्रियेताग्न्युदकादिभिः । तस्याशौचं विधातव्यं कर्तव्या चोदक- क्रिया' इति अङ्गिरःस्मरणात् ॥ तथा मृत्युविशेषादपि आशौचादिनिषेधः— 'चाण्डालादुदकात्सर्पाद् ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मि- णाम् ॥ उदकं पिण्डदानं च प्रेतेभ्यो यत्प्रदीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विन- श्यति ॥' इति । एतदपीच्छापूर्वमात्महननविषयम् । गौतमवचनेनेच्छापूर्वकमेवो- दकेन हतस्याशौचादिनिषेधस्योक्तत्वात् । अत्रापि 'चाण्डालादुदकात्सर्पात्' इति तत्साहचर्यदर्शनाद् बुद्धिपूर्वविषयत्वनिश्चयः । अतो दर्पादिना चाण्डालादीन्हन्तुं गतो यस्तैर्मारितस्तस्यायं 'सर्वत एवात्मानं गोपायेत्' इति विध्यतिक्रमानिमित्तः पिण्डदानादिनिषेधः । एवं दुष्टदंष्ट्रायुक्तव्यादिग्रहणार्थनाभिमुख्येन दर्पाद्गच्छतो मरणेऽप्ययं निषेध इत्यनुसंधेयम् । अयं चाशौचप्रतिषेधो दशाहादिकाला- वच्छिन्नस्य; 'हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम्' ( प्रा० २१ ) इति सद्यःशौचस्य वक्ष्यमाणत्वात् । तथा दाहादिकमप्येषां न कार्यम् ; 'नाशौचं नोदकं नाश्रु न दाहान्यत्कर्म च । ब्रह्मदण्डहतानां च न कुर्यात्कटधा- रणम् ॥' इति यमस्मरणात् । ब्रह्मदण्डहता ब्राह्मणदण्डहताः । प्रेतवहनसाधने खट्वादि 'कट'शब्देनोच्यते । न चाहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्येतत् श्रुतिविहिताग्नियज्ञपात्रादिप्रतिपत्तिलोपप्रसङ्गात् । अयं स्मार्तो दाहादिनिषेधो विप्रादिहिताहिताग्निविषयं नास्कन्दतीत्याशङ्कनीयम् । यतश्चण्डालादिह- १. विवक्षितम् । एतच्च बुद्धिपूर्वविषयम् ।

Page 454Permalink

Here is the complete line-by-line transcription of the Sanskrit text from the page:

[Header] ३६८ याज्ञवल्क्यस्मृतिः

ताहिताग्निसंबन्धिनामग्नियज्ञपात्राणां स्मृत्यन्तरे प्रतिपत्त्यन्तरं विधीयते- 'वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे । पात्राणि तु दहेदग्नौ यजमाने वृथा मृते ॥' (जमदग्निः) इति । तथा तच्छरीरस्यापि प्रतिपत्त्यन्तरमुक्तम्; 'आत्मन- स्त्यागिनां नास्ति पतितानां तथा क्रिया । तेषामपि तथा गङ्गातोये संस्थापनं हितम् ॥' इति स्मरणात् । तस्मादविशेषेण सर्वेषां दहनादिनिषेधः । अतः स्नेहादिना निषेधातिक्रमे प्रायश्चित्तं कर्तव्यम्; 'कृत्वाऽग्निमुदकं स्नानं स्पर्शनं वहनं कथाम् । रज्जुच्छेदाश्रुपातं च तप्तकृच्छ्रेण शुद्धयति ॥' इति स्मरणात् । एतच्च प्रत्येकं बुद्धिपूर्वंके वेदितव्यम् । अबुद्धिपूर्वकमरणे तु 'एषामन्यतमं प्रेतं यो वहेत दहेत वा । कटोदकक्रियां कृत्वा कृच्छ्रं सान्तपनं चरेत् ॥' इति संव- र्तोक्तं द्रष्टव्यम् ॥ यः पुनः 'तच्छ्रवं केवलं स्पृष्टमश्रु वा पातितं यदि । पूर्वोक्ता- नामकारी चेदेकरात्रमभोजनम् ॥' इति स्पर्शाश्रुपातयोरुपवास उक्तः ॥ असौ कृच्छ्रेष्वशक्तश्च तथा बन्धनच्छेदने दहने वा मासं भैक्षाहारस्त्रिषवणं च' इति सुमन्तुना भैक्षाशित्वमुक्तं, -तदप्यशक्तस्यैव । एवमन्यान्यपि तद्विषयाणि स्मृति- वाक्यानि व्यवस्थापनीयानि । अयं च दाहादिप्रतिषेधो नित्यकर्मानुष्ठानासमर्थ- जीर्णवानप्रस्थादिव्यतिरिक्तविषयः; तेषामभ्यनुज्ञादर्शनात् । 'वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनाम्बुभिः ॥ तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसंचयः । तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत्'॥ इति स्मरणात् ॥ एवं येन येनोपायिना आत्महननं शास्त्रतोऽभ्यनुज्ञायते तत्तद्व्यतिरिक्तमार्गे- णात्महनने श्राद्धाद्यौर्ध्वदेहिकेषु निषिद्धेषु किं पुनस्तेषां कार्यमित्यपेक्षायां वृद्धया- ज्ञवल्क्यच्छागलेयाभ्यामुक्तम्- 'नारायणबलिः कार्यो लोकगर्हाभयान्नरैः । तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः । तस्मात्तेभ्योऽपि दातव्यमन्नमेव सदक्षिणम् ॥' इति । व्यासेनाप्युक्तम्- 'नारायणं समुद्दिश्य शिवं वा यत्प्रदीयते । तस्याशुद्धिकरं कर्म तद्भवेद्धैतदन्यथा ॥' एवं इति । एवं नारायणबलिः प्रेतस्य शुद्ध्यापादनद्वारेण श्राद्धादिसंप्रदानत्वयोग्यतां जनयतीति और्ध्वदैहिकम- पि सर्वं कार्यमेव । अत एव षट्त्रिंशन्मतेऽपि और्ध्वदैहिकस्याभ्यनुज्ञा दृश्यते- 'गोब्राह्मणहतानां च पतितानां तथैव च । ऊर्ध्वं संवत्सरात्कुर्यात्सर्वमेवौर्ध्वदैहि- कम् ॥' इति । एवं संवत्सरादूर्ध्वमेव नारायणबलिं कृत्वौर्ध्वदैहिकं कार्यम् ॥ नारायणबलेश्चेत्थं कार्यः- कस्यांचिच्छुक्लैकादश्यां विष्णुं वैवस्वतं यमं च यथावदभ्यर्च्य तत्समीपे मधुघृतप्लुतांस्तिलमिश्रान्दश पिण्डान्विष्णुरूपिणं प्रेत- मनुस्मरन् प्रेतनामगोत्रे उच्चार्य दक्षिणाग्रेषु दर्भेषु दक्षिणाभिमुखो दत्त्वा गन्धा-

[Footnote] १. पूर्वैव वेदितव्यम् ।

Page 455Permalink

प्रायश्चित्ताध्यायः ३६६ दिग्भिरभ्यर्च्य पिण्डप्रवाहणान्तं कृत्वा नद्यां क्षिपेत् , न पत्न्यादिभ्यो दद्यात् ॥ ततस्तस्यामेव रात्र्यामयुग्मान्ब्राह्मणानमन्त्र्योपोषितः श्वोभूते मध्याह्ने विष्ण्वारा- धनं कृत्वा एकोद्दिष्टविधिना ब्राह्मणपादप्रक्षालनादितृप्तिप्रश्नान्तं कृत्वा पिण्डपितृ- यज्ञावृतोल्लेखनावनेजनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय च परिवारसहिताय चतुरः पिण्डान्दत्त्वा नामगोत्रसहितं तं प्रेतं संस्मृत्य विष्णोर्नाम संकीर्त्य पञ्चमं पिण्डं दद्यात् । ततो विप्रानाचान्तान्दक्षिणाभिस्तोषयित्वा तन्म- ध्ये चैकं गुणवत्तमं प्रेतबुद्ध्या संस्मरन् गोभूहिरण्यादिभिरतिशयेन संतोष्य ततः पवित्रपाणिभिर्विप्रैः प्रेताय तिलादिसहितमुदकं दापयित्वा स्वजनैः सार्धं भुञ्जीत ॥ सर्पहते त्वयं विशेषः-संवत्सरं यावत्पुराणोक्तविधिना पञ्चम्यां नागपूजां विधाय पूर्णे संवत्सरे नारायणबलिं कृत्वा सौवर्णं नागं दद्यात्, गां च प्रत्यक्षात् । ततः सर्वमौर्ध्वदेहिकं कुर्यात् ॥ नारायणबलिस्वरूपं च वैष्णवेऽभिहितं यथा-‘एकादशीं समासाद्य शुक्ल- पक्षस्य वै तिथिम् । १विष्णुं समर्चयेद्देवं यमं वैवस्वतं तथा ॥ दश पिण्डान् घृताभ्यक्तान्दर्भेषु मधुसंयुतान् । तिलमिश्रान्प्रदद्याद्वै संयतो दक्षिणामुखः ॥ विष्णुं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् । नामगोत्रग्रहं तत्र पुष्पैराभ्यर्चनं तथा ॥ धूपदीपप्रदानं च अद्यं भोज्यं तथा परम् । निमन्त्रयेत विप्रान्वै पञ्च सप्त नवापि वा ॥ विद्यातपःसमृद्धांन्वैकलोत्पन्नान्समाहितान् । अपरेऽहनि सं- प्राप्ते मध्याह्ने समुषोषितः ॥ विष्णोरभ्यर्चनं कृत्वा विप्रांस्तानुपवेशयेत् । उदङ्मुखान्याथज्येष्ठं पितृरूपमनुस्मरन् ॥ मनो निवेश्य विष्णौ वै सर्वं कुर्याद- तन्द्रितः । आवाहनादि यत्प्रोक्तं देवपूर्वं तदाचरेत् ॥ तृप्तान्ज्ञात्वा ततो विप्रांस्तृप्तिं पृष्ट्वा यथाविधि । हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥ पञ्च पिण्डान्प्रदद्याच्च दैवं २रूपमनुस्मरन् । प्रथमं विष्णवे दद्याद् ब्रह्मणे च शिवाय च ॥ यमाय ३सानुचराय चतुर्थं पिण्डमुत्सृजेत् । मृतं संकीर्त्य मनसा गोत्रपूर्वमतः परम् ॥ विष्णोर्नाम गृहीत्वैवं पञ्चमं पूर्ववत्क्षिपेत् । ४विप्रानाचम्य विधिवद्दक्षिणाभिः समर्चयेत ॥ एकं ५विद्वत्तमं विप्रं हिरण्येन समर्चयेत् । गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरन् ॥ ततस्तिलाम्भो विप्रास्तु हस्तैर्दर्भसमन्वितैः । क्षिपेयुर्गोत्रपूर्वं तु नाम बुद्धौ निवेश्य च ॥ हविर्गन्धतिलाम्भस्तु तस्मै दद्युः समाहिताः । मित्रभृत्य- जनैः सार्धं पश्चाद्भुञ्जीत वाग्यतः ॥ एवं विष्णुमते स्थित्वा यो दद्यादात्मघातिने । समुद्धरति तं क्षिप्रं नात्र कार्या विचारणा ॥' सर्पदंशनिमित्तं सौवर्णनागदानं प्रतिकृतिरूपेण भविष्यपुराणे सुमन्तुनाभिहितम्-‘सुवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् । व्यासाय दत्त्वा विधिवत्पितॄणानृण्यमाप्नुयात् ॥' इति ॥६॥ १. अर्चयेद् देवेशं । २. देवरूपं । ३. सानुचाराय । ४. विप्रेणाचम्य । ५. बुद्धतमं ।

भाषा-पाखण्डी, अनाश्रित (जो किसी आश्रम में न हों), चोर, पति

Page 456Permalink

४०० याज्ञवल्क्यस्मृतिः

भाषा-पाखण्डी, अनाश्रित (जो किसी आश्रम में न हों), चोर, पति की हत्यारिणी और व्यभिचारिणी आदि स्त्रियाँ, सुरा पीने वाले और आत्महत्या करने वाले आशौचकाल में दिये जाने वाले उदकदान के पात्र नहीं होते। (अर्थात् इन्हें आशौच में उदकदान नहीं दिया जाता) ॥ ६ ॥ एवमुदकदानं सापवादमभिधायानन्तरं किं कार्यमित्यत आह- कृतोदकान्समुत्तीर्णान्मृदुशाद्वलसंस्थितान् । स्नातानपवदेयुस्तानितिहासैः पुरातनैः ॥ ७ ॥ कृतमुदकदानं यैस्तान्कृतोदकान् स्नातान्सम्यगुदकादुत्तीर्णान्मृदुशाद्वले नवोद्गततृणप्रचयावृते भूभागे सम्यक्स्थितान् पुत्रादीन्कुलवृद्धाः पुरातनैरिति- हासैर्वक्ष्यमाणैरपवदेयुः शोकनिरसनसमर्थैर्वचोभिर्बोधयेयुः ॥ ७ ॥ भाषा-उदकदान के बाद स्वयं जल में स्नान करके जल से निकल कर (किनारे की) हरी घास पर बैठे हुए पुत्रादि जनों को पुरानी कथाएँ सुनाकर कुल के वृद्ध व्यक्ति उनके शोक को दूर करें ॥ ७ ॥ शोकनिरसनसमर्थेतिहासस्वरूपमाह- मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । करोति यः स संमूढो जलबुद्बुदसंनिभे ॥ ८ ॥ 'मनुष्य'शब्देन जरायुजाण्डजादिचतुर्विधभूतजातं लक्ष्यते; तस्य भाव मानुष्यं; तत्र संसरणधर्मित्वेन कदलीस्तम्भवदन्तःसाररहिते जलबुद्बुदवदचिर- विनश्वरे संसारे सारस्य स्थिरस्य मार्गणमन्वेषणं यः करोति स संमूढः अत्यन्त- विनष्टचित्तः तस्मात्संसारस्वरूपवेदिभिर्भवद्भिरित्थं न कार्यम् ॥ ८ ॥ भाषा-जो व्यक्ति एक केले के स्तम्भ के समान निःसार और जल के बुलबुले के समान नश्वर इस मनुष्यलोक में स्थिरता की इच्छा करता है वह मूढ है ॥ ८ ॥ पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ ९ ॥ किंच, जन्मान्तरात्मीयशरीरजनितैः कर्मबीजैः स्वफलोपभोगार्थं पञ्चधा पृथिव्यादिपञ्चभूतात्मकतया पञ्चप्रकारं संभृतो निर्मितः कायः स यदि फलोपभोगनिवृत्तौ पञ्चत्वमागतः पुनः पृथिव्यादिरूपतां प्राप्तस्तत्र भवतां किमर्था परिदेवना ? निष्प्रयोजनत्वाच्चानुशोचनं कर्तव्यम् ; वस्तुस्थितेस्तथा- त्वात् । नहि केनचिद्वस्तुस्थितिरतिक्रमितुं शक्यते ॥ ९ ॥

Page 457Permalink

[Page Header: प्रायश्चित्त्याध्यायः ४०१]

भाषा-पूर्वजन्म के शरीर द्वारा किये गये कर्मों का फल भोगने के लिए (पृथ्वी आदि) पाँच तत्त्वों के संघात से निर्मित शरीर यदि पुनः पञ्चतत्त्वों के रूप में आ गया तो इसमें शोक करने की क्या बात है ? ॥ ९ ॥ गन्त्री वसुमती नाशमुदधिर्दैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ १० ॥ अपि च, नेदमाश्चर्यं मरणं नाम; यतः पृथिव्यादीनि महान्त्यपि भूतानि नाशं गच्छन्ति, तथा समुद्रा अपि जरामरणविरहिणः, अमरा अपि प्रलयसमये अवसानं गच्छन्ति, कथमिवास्थिरतया फेनसंनिभो मरणधर्मा भूतसंघो विनाशं न यास्यति ? उचितमेव हि मरणधर्मिणः प्रायणम् । अतो निष्प्रयोजनः शोकसमावेशः ॥ १० ॥ भाषा-पृथिवी, समुद्र और देवता भी नाश को प्राप्त होते हैं तो फेन के समान मृत्युलोक क्यों नहीं नष्ट होगा ? ॥ १० ॥ अनिष्टापादकत्वादप्यनुशोचनं न कार्यमित्याह— श्लेष्माञ्श्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ ११ ॥ यस्मादनुशोचद्भिर्बान्धवैर्वदननयननिर्गमितं श्लेष्माञ्श्रु वा यस्माद्वशोऽ- कामोऽपि प्रेतो भुङ्क्ते, तस्मान्न रोदितव्यं; किंतु प्रेतहितेप्सुभिः स्वशक्त्य- नुसारेण श्राद्धादिक्रियाः कार्याः ॥ ११ ॥ भाषा-बान्धवों द्वारा शोक में गिराये गये श्लेष्मा (खखार) और अश्रु प्रेत को बाध्य होकर (न चाहते हुए भी) खाना पड़ता है; अतएव रोना नहीं चाहिये, अपितु (प्रेत के हित के लिए) अपनी शक्ति के अनुसार (श्राद्ध) क्रिया करनी चाहिए ॥ ११ ॥ इति संश्रुत्य गच्छेयुर्गृहं बालपुरःसराः । विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ १२ ॥ ^२आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् । प्रविशेयुः समालभ्य कृत्वाऽश्मनि पदं शनैः ॥ १३ ॥ एवं कुलवृद्धवचांसि सम्यगाकर्ण्य त्यक्तशोकाः सन्तो बालानग्रतः कृत्वा गृहं गच्छेयुः । गत्वा च वेश्मनो द्वारि स्थित्वा नियताः संयत- मनस्काः निम्बपत्राणि विदश्य दशनैः खण्डयित्वा आचमनं च कृत्वाऽ- ग्न्यादकगोमयगौरसर्षपानालभ्य, 'आदि' ग्रहणात् 'दूर्वाप्रवालमग्निवृषभौ १. 'प्रयत्नतः' । २. 'आचम्याथाम्भिसमुदकं' ।

Page 458Permalink

४०२ याज्ञवल्क्यस्मृतिः च' इति शङ्खोक्तौ दूर्वाङ्कुरवृषभावपि स्पृष्ट्वा अश्मनि च पदं निधाय शनै- र्द्रुतं वेश्मनि प्रविशेयुः ॥ १२-१३ ॥ भाषा—( कुल वृद्धों के ) इस प्रकार के वचन सुनकर ( शोक त्याग कर ) बालकों को आगे करके घर जावें । घर के द्वार पर खड़े होकर नीम की पत्तियाँ कूँचकर, आचमन करके, अग्नि, जल, गोबर और पीले सरसों का स्पर्श करें और पत्थर पर पैर रखकर धीरे से घर में प्रवेश करें ॥ १२-१३ ॥ अतिदेशमाह— प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि । इच्छतां १तत्क्षणाच्छुद्धिः परेषां स्नानसंयमान् ॥ १४ ॥ यदेतत्पूर्वोक्तं निम्बपत्रदशनादि वेश्मप्रवेशनान्तं कर्म, तन्न केवलं ज्ञाती- नामपि तु परेषामपि धर्मार्थं प्रेतालङ्कारनिर्हरणादिकं कुर्वतां भवति । ‘प्रवे- शनादिकं’ इत्यत्र ‘आदि’ शब्दोऽमाङ्गलिकत्वात्प्रतिलोमक्रमाभिप्रायः । तेषां च धर्मार्थनिर्हरणादौ प्रवृत्तानां तत्क्षणाच्छुद्धिमिच्छतां असपिण्डानां स्नानप्राणा- यामाभ्यामेव शुद्धिः । यथाह पराशरः—'अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजा- तयः । पदे पदे यज्ञफलमानुपूर्व्या लभन्ति ते ॥ न तेषामशुभं किंचित्पापं वा- शुभकर्मणि । जलाremote/जलावगाहनात्तेषां सद्यः शौचं विधीयते ॥' इति ॥ स्नेहादिना निर्हरणे तु मनूक्तो विशेषः ( ५।१०१।१०२ )—'असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् । यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति । अनदन्नन्नमह्नैव न चेत्तस्मिन्गृहे वसेत् ॥' इति । अत्रेयं व्यवस्था—यः स्नेहादिना शवनिर्हरणं कृत्वा तदीयमेवान्नमश्नाति, तद्गृहे च वसति, तस्य दशाहेनैव शुद्धिः । यस्तु केवलं तद्गृहे वसति, न पुनस्तद- न्नमश्नाति , तस्य त्रिरात्रम् ; यः पुनर्निर्हरणमात्रं करोति, न तद्गृहे वसति, न च तदन्नमश्नाति, तस्यैकाह इति-एतत्सजातीयविषयम् ; विजातीयविषये पुनर्यजातीयं प्रेतं निर्हरति तज्जातिप्रयुक्तमाशौचं कार्यम् ; यथाह गौतमः ( १४।१९ )—'अवरश्चेद्वर्णः पूर्वं वर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र तच्छुचोक्तमा- शौचम्' इति । उपस्पर्शनं निर्हरणम् । विप्रस्य शूद्रनिर्हरणे मासाशौचम् ; शूद्रस्य तु विप्रनिर्हरणे दशरात्रमित्येवं शववदाशौचं कर्तव्यमित्यर्थः ॥ १४ ॥ भाषा—शव को छूने वाले दूसरे ( सगोत्र बान्धवों से भिन्न ) व्यक्तियों को घर में प्रवेश करने तक की पूर्वोक्त क्रियाएँ करनी होती हैं, यदि वे तत्काल शुद्ध होने का विचार करें तो स्नान और प्राणायाम से ही उनकी शुद्धि हो जाती है ॥ १४ ॥ १. तत्क्षणाच्छुद्धिं । तत्क्षणाच्छुद्धिरन्येषाम् ।

Page 459Permalink

प्रायश्चित्ताध्यायः ४०३ ब्रह्मचारिणं प्रत्याह— आचार्य्यपितृपाध्यायान्निर्हृत्यापि व्रती व्रती । संकटात्नं न नाश्नीयान्न च तैः सह संवसेत् ॥ १५ ॥ आचार्य उक्तलक्षणः, माता च पिता च पितरौ, उपाध्यायः पूर्वोक्तः, एता- न्निर्हृत्यापि व्रती ब्रह्मचारी ब्रत्येव, न पुनरस्य व्रतभ्रंशः । 'कट'शब्देनाशौचं लक्ष्यते, तत्सहचरितमन्नं सकटात्नं तद्ब्रह्मचारी नाश्नीयात् ; न चाशौचिभिः सह संवसेत् । एवं वदता आचार्यादिव्यतिरिक्तप्रेतनिर्हरणे ब्रह्मचारिणो व्रतलोप इत्यर्थादुक्तं भवति । अत एव वसिष्ठेनोक्तम्—'ब्रह्मचारिणः शवकर्म्मिणो व्रतान्त्रि- वृत्तिरन्यत्र मातापित्रोः' इति ॥ १५ ॥ भाषा-आचार्य, मातापिता और उपाध्याय के शव श्मशान तक ले जाने पर भी ब्रह्मचारी व्रती ही रहता है ( उसका व्रत खण्डित नहीं होता ); किन्तु उसे आशौची का अन्न नहीं ग्रहण करना चाहिए और न उनके साथ निवास करना चाहिए ॥ १५॥ आशौचिनां नियमविशेषमाह— क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक् २ क्षितौ । पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ १६ ॥ क्रीतमयाचितलब्धं वा अशनं येषां ते क्रीतलब्धाशनाः, भवेयुरिति शेषः । क्रीतलब्धाशननियमात्तदलाभेऽनशनमर्थात्सिद्धं भवति । अत एव वसिष्ठः—'गृहान्प्रव्रज्य अधःप्रस्तरे त्र्यहमश्नन्त आसीरन् क्रीतोत्पन्नेन वा वर्तेरन्' इति । अघप्रस्तर आशौचिनां शयनासनार्थस्तृणमयः प्रस्तरः । ते च सपिण्डा भूमावेव पृथक्पृथक् शयीरन्, न खट्वाद्यौ ॥ मनुनाऽप्यत्र विशेषो दर्शितः ( ५।७३ )—'अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् । मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ ॥' इति । तथा गौतमेनापि विशेष उक्तः ( १४।३० )—'अधःशय्यासनिन्नो ब्रह्मचारिणः३ शवकर्म्मिणः' इति । तथा पिण्डपितृयज्ञप्रक्रियया प्राचीनावीतिस्वाद्रिरूपया प्रेताय दिनत्रयं पिण्डरूपमन्नं तूष्णीं क्षितौ देयम् । यथाह मरीचिः—'प्रेतपिण्डं बर्हिर्दादर्भमन्त्रविवर्जितम् । प्रागुदीच्यां चरुं कृत्वा स्नातः प्रयतमानसः ॥' इति । दर्भमन्त्रविवर्जितत्वमनु- पनीतविषयम् । 'असंस्कृतानां भूमौ पिण्डं दद्यात्संस्कृतानां कुशेषु' इति प्रचेतः- स्मरणात् । तथा कर्तृनियमश्च गृह्यपरिशिष्टाद्विज्ञेयः—'असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥' इति । तथा द्रव्यनियमश्च शूनःपुच्छेन दर्शितः—'शालिना सक्तुभिर्वापि शाकैर्वाऽ- १. स कटान्नं २. पृथक्पृथक् । ३. रिणः सर्व इति । २६ या०

Page 460Permalink

४०४ याज्ञवल्क्यस्मृतिः

द्यथ निर्वपेत् । प्रथमेऽहनि यद् द्रव्यं तदेव स्याद्दशाहिकम् ॥ तूष्णीं प्रसेकं पुष्पं च दीपं धूपं तथैव च ॥' इति । पिण्डश्च पाषाणे देयः । 'भूमौ माश्यं पिण्डं पानीय- मुपले वा दद्युः' इति शङ्खस्मरणात् । न च 'दद्युः' इति बहुवचनेनोदकदान- वत्सर्वैः पिण्डदानं कार्यमित्याशङ्कनीयं, किंतु पुत्रेणैव कार्यम् । तदभावे प्रत्या- सन्नेन सपिण्डानामन्यतमेन, तदभावे मातृसपिण्डादिना कार्यम् ; 'पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश्च दद्युस्तदभावे ऋत्विगाचार्याः' इति गौतम- स्मरणात् । पुत्रबहुत्वे पुनज्येष्ठेनैव कार्यम् । 'सर्वैरनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण वाविभक्तेन सर्वैरेव कृतं भवेत् ॥' इति मरीचिस्मरणात् । पिण्डसंख्यानियमश्च — ब्राह्मणस्य दश पिण्डाः, क्षत्रियस्य द्वादशैवेति । एवमा- शौचदिवससंख्यया विष्णुनाऽभिहितम् —'यावदाशौचं प्रेतस्योदकं पिण्डमेकं च दद्युः' इति । तथा स्मृत्यन्तरेऽपि—'नवभिर्दिवसैर्दद्यान्नव पिण्डान्समाहितः । दशमं पिण्डमुत्सृज्य रात्रिशेषे शुचिर्भवेत् ॥' इति शुचित्ववचनमपरेद्युः क्रियमा- णश्राद्धार्थंब्राह्मणनिमन्त्रणाभिप्रायेण । योगीश्वरेण तु पिण्डत्रयदानमभिहितम् । अनयोश्च गुरुघुकल्पयोरुदकदानविषयोक्ता व्यवस्था विज्ञेया । अन्ना- परः शातातपीयो विशेषः—'आशौचस्य तु हासेऽपि पिण्डान्नद्वादशैव तु' इति ॥ त्रिरात्राशौचिनां पुनः पारस्करेण विशेषो दर्शितः —'प्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितैः । द्वितीये चतुरो दद्यादस्थिसंचयनं तथा ॥ त्रींस्तु दद्यात्तृतीयेऽह्नि वस्त्रादि क्षालयेत्तथा ॥' इति ॥ १६ ॥ भाषा—आशौची व्यक्ति खरीद कर या बिना माँगे ही मिले हुए अन्न का भोजन करें और भूमि पर पृथक्-पृथक् सोवें तथा पृथ्वी पिण्ड-पितृयज्ञ की विधि से ( दाहिने कन्धे पर यज्ञोपवीत करके ) तीन दिन प्रेत के लिए पिण्डदान के रूप में अन्न देवें ॥ १६ ॥ जलमेकाहमाकाशे स्थाप्यं क्षीरं च मृन्मये । किंच, जलं क्षीरं च मृन्मये पात्रद्वये पृथक् पृथगाकाशे शिक्यादावेकाहं स्थापनीयम् । अत्र विशेषानुपादानात्प्रथमेऽहनि कार्यम् । तथा पारस्करव- चनात् । 'प्रेतात्र स्नाहि' इत्युदकं स्थाप्यं 'पिब चेदम्' इति क्षीरम् ॥ तथास्थि- संचयनं च प्रथमादिदिनेषु कार्यम् ; तथाह संवर्तः—'प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा । अस्थिसंचयनं कार्यं दिने तद्गोत्रजैः सह ॥' इति । क्वचिद् द्वितीये ऽस्थिसंचय इत्युक्तम् । वैष्णवे तु 'चतुर्थे दिवसेऽस्थिसंचयनं कुर्यात् तेषां च गङ्गाम्भसि प्रक्षेपः' इति । अतोऽन्यतमस्मिन्दिने स्वगृह्योक्तविधिनाऽस्थिसंचयनं कार्यम् अङ्गिरसा चात्र विशेषो दर्शितः —'अस्थिसंचयने यागो देवानां परिकीर्तितः । प्रेतीभूतं समुद्दिश्य यः शुचिनं करोति चेत् ॥ देवतानां तु यजनं तं शपन्त्यथ

Page 461Permalink

देवताः ॥' देवताश्चात्र श्मशानवासिन्यः तत्र १पूर्वदग्धाः 'श्मशानवासिनो देवाः शवानां परिकीर्तिताः' इति तेनैवोक्तम् । अतस्तान्देवान्चिरमृतं च प्रेतमुद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्येत्युक्तं भवति ॥ तथा वपनं च दशमेऽहनि कार्यम् ; 'दशमेऽहनि संप्राप्ते स्नानं ग्रामाद्बहिर्भवेत् । तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ॥' इति देवलस्मरणात् ॥ तथा स्मृत्यन्तरेऽपि—'द्वितीयेऽहनि कर्तव्यं क्षुरकर्म प्रयत्नतः । तृतीये पञ्चमे चाऽपि सप्तमे वाऽप्रदानतः ॥' इति श्राद्धप्रदानादवार्गनियम इति यावत् । वपनं च केषामित्याकाङ्क्षायामापस्तम्बेनोक्तम्—'अनुभाविनां च परिवापनम्' इति । अयमर्थः—शावं दुःखमनुभवन्तीत्यनुभाविनः सपिण्डाः, तेषां चावि- शेषेण वपनमुताल्पवयसामित्यपेक्षायामिदमेवोपतिष्ठते—'अनुभाविनां च परि- वापनम्' इति । अनु पश्चाद्भवन्तीत्यनुभाविनोऽल्पवयसस्तेषां वपनमिति । अनुभाविनः पुत्रा इति केचिन्मन्यन्ते; 'गङ्गायां भास्करक्षेत्रे २माता पित्रोर्गुरो- र्मृतौ । आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥' इति नियमदर्शनात् ॥ अशुचित्वेन सकलश्रौतस्मार्तकमाधिकारनिवृत्तौ प्रसक्तायां केषुचिदभ्यनुज्ञा- नार्थमाह— ३वैतानौपासनाः कार्याः क्रियाश्च श्रुतिचोदनात् ॥ १७ ॥ वितानोऽग्नीनां विस्तारस्तत्र भवा वैतानाः त्रेताग्निसोध्या अग्निहोत्रदर्श- पूर्णमासाद्याः क्रिया उच्यन्ते । प्रतिदिनमुपास्यत इत्युपासनो गृह्याग्निस्तत्र भवा औपासनाः सायं प्रातर्होमक्रिया उच्यन्ते । ता वैतानौपासना वैदिक्यः क्रियाः कार्याः । कथं वैदिकत्वमिति चेत् ,—श्रुतिचोदनात् । तथा हि—'यावज्जीव- मग्निहोत्रं जुहुयात्' इत्यादिश्रुतिभिरग्निहोत्रादीनां चोदना स्पष्टैव । तथा 'अहरहः स्वाहा कुर्यादन्नाभावे केनचिदाकाष्ठात्' इति श्रुत्यौपासनहोमोऽपि ५चोद्यते । अत्र च श्रौतत्वविशेषणोपादानात्स्मार्तक्रियाणां दानादीनामननुष्ठानं गम्यते । अत एव वैयाघ्रपादेनोक्तम् – 'स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके । श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात् ॥' इति श्रौतानां च कार्यत्वा- भिधानं नित्यनैमित्तिकाभिप्रायेण; यथाह पैठीनसिः—'नित्यानि विनिवर्तेरन्वं- तानवर्जं शालाग्नौ चैके' इति । 'नित्यानि विनिवर्तेरन्' इत्यविशेषेण आवश्य- कानां नित्यनैमित्तिकानां निवृत्तौ प्रसक्तायां 'वैतानवर्जम्' इत्यग्नित्रयसाध्या- वश्यकानां पर्युदासः; 'शालाग्नौ चैक' इति गृह्याग्नौ भवानामप्यावश्यकानां पाक्षिकः पर्युदास उक्तः । अतस्तेष्वाशौचं नास्त्येव । काम्यानां पुनः शौचा-


१. भूतपूर्वदग्धाः । २. गुरौ मृते । ३. वैतानो । ४. चोदनाः । ५. बध्यते ।

Page 462Permalink

४०६ याज्ञवल्क्यस्मृतिः

भावादननुष्ठानम् । मनुनाप्यनेनैवाभिप्रायेणोक्तम् ( ५।८४ )—'प्रत्यूहेन्ना- ग्निषु क्रिया' इति । अग्निषु क्रिया न प्रत्यूहेदिति अनग्निसोध्यानां पञ्चमहा- यज्ञादीनां निवृत्तिः । अत एव संवर्तः—'होमं तत्र प्रकुर्वीत शुष्कान्नेन फलेन वा । पञ्चयज्ञविधानं तु न कुर्यान्मृत्युजन्मनोः ॥' इति वैश्वदेवस्याग्निसाम्य- स्वेऽपि वचनान्निवृत्तिः । 'विप्रो दशाहमासीत वैश्वदेवविवर्जितः' इति तेनैवो- क्तत्वात् ॥ 'सूतके कर्मणां त्यागः संध्यादीनां विधीयते' इति यद्यपि संध्याया विनिवृत्तिः श्रूयते, तथाप्यञ्जलिप्रक्षेपणादिकं कुर्यात् । 'सूतके सावित्र्या चाञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्यं ध्यायन्नमस्कुर्यात्' इति पैठीनसिस्मरणात् । यद्यपि 'वैतानौपासनाः कार्या' इति सामान्येनोक्तं, तथाप्यन्येन कारयितव्यम् । 'अन्य एतानि कुर्युः' इति पैठीनसिस्मरणात् । बृहस्पतिनाप्युक्तम्—'सूतके मृतके चैव अशक्तौ श्राद्धभोजने । प्रवासादिनिमित्तेषु हावयेन्न तु हापयेत् ॥' इति । तथा स्मार्तत्वेऽपि पिण्डपितृयज्ञश्रवणाकर्माश्वयुज्यादिकश्च नित्यहोमः कार्य एव; 'सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत् । पिण्डयज्ञं चरुं होम- मसगोत्रेण कारयेत् ॥' इति जातूकर्ण्यस्मरणात् । यद्यपि साङ्गे कर्मण्यन्य- कर्तृत्वं, तथापि स्वद्रव्यत्यागात्मकं प्रधानं स्वयं कुर्यात् ; तस्यानन्यनिष्पा- द्यत्वात् । अत एवोक्तम्—'श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात्' इति; यत्पुनः—'दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते' इति होमप्रतिषेधः, स काम्याभिप्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः । तथा सूतकान्नभोजन- मपि न कार्यम् ; 'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते' इति यमस्मरणात् उभयत्र जननमरणयोः । 'दशाहानि' इत्याशौचकालोपलक्षणम् । कुलस्य सूतक- युक्तस्य संबन्ध्यन्नं असकृत्त्यैनं भोक्तव्यं, सकृत्त्यानां पुनर्न दोषः; 'सूतके तु कुलस्यान्नमदोषं मनुरब्रवीत्' इति तेनैवोक्तत्वात् । अयं च निषेधो दातृभोक्त्रोर- न्यतरेण जनने मरणे वा ज्ञाते सति वेदितव्यः; 'उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् । एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेत् ॥ इति षट्त्रिंशन्मते दर्शनात् । तथा विवाहादिषु सूतकोत्पत्तेः प्राग् ब्राह्मणार्थं पृथक्कृतमन्नं भोक्तव्य- मेव; 'विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । पूर्वसंकल्पितार्थेषु न दोषः परि- कीर्तितः' ॥' इति बृहस्पतिस्मरणात् । तथापरोऽपि विशेषः षट्त्रिंशन्मते दर्शितः—'विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । परैरन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः ॥ भुञ्जानेषुतु विप्रेषु त्वन्तरा मृतसूतके । अन्यगेहोदकाचान्ताः सर्व ते शुचयः स्मृताः ॥' इति । तथाशौचपरिग्रहत्वेऽपि केषुचिद्द्रव्येषु दोषा- भावः । यथाह मरीचिः—'लवणे मधुमांसे च पुष्पमूलफलेषु च । शाक- षाडवगुम्बप्सु दधिसर्पिःपयस्सु च ॥ तिलौषधाजिने चैव पक्कापक्के स्वयं ग्रहः । दन्येषु चैव सर्वेषु नाशीचं मृतसूतके ॥' इति । पक्वं भक्ष्यजातं मोदकादि,

Page 463Permalink

अपक्वं तण्डुलादि, 'स्वयंग्रह' इति स्वयमेव स्वाम्यनुज्ञातो गृह्णीयादित्यर्थः । एकापक्वाभ्यनुज्ञानमसत्सत्रप्रवृत्तविषयम् ; 'असत्सत्रप्रवृत्तानामाममन्नमगहितम् । भुक्त्वा पक्वान्नमेतेषां त्रिरात्रं तु पयः पिबेत् ॥' इत्यङ्गिरःस्मरणात् । अत्र 'पक्व' शब्दो भक्ष्यव्यतिरिक्तौदनादिविषयः ॥ शवसंसर्गनिमित्ताशौचे त्वङ्गिरा विशेष उक्तः- 'आशौचं यस्य संसर्गादापतेद्गृहमेधिनः । क्रियास्तस्य न लुप्यन्ते गृहाणां च न तद्भवेत् ॥' इति, -तदाशौचं केवलं गृहमेधिन एव; न पुनस्तद्गृहे भवानां भार्यादीनां तद्द्रव्याणां च भवेदित्यर्थः । अतिक्रान्ताशौचेऽप्ययमेवार्थः स्मृत्यन्तरे दर्शितः-'अतिक्रान्ते दशाहे तु पश्चाज्जानाति चेद्गृही । त्रिरात्रं सूतकं तस्य न तद्द्रव्यस्य कर्हिचित् ॥' ( मनुः ५।७६ ) इति ॥ १७ ॥ भाषा-एक दिन मिट्टी के ( दो ) पात्रों में पृथक्-पृथक् जल और दूध आकाश में ( शिक्या-सिकहर-पर ) रखना चाहिए । श्रुति के आदेश से अग्निहोत्र आदि वैतानिक और एवं गृह्याग्नि से किये जाने वाला उपासन कर्म एवं सायं-प्रातः होम क्रिया करनी चाहिए ॥ १७ ॥ एवमाशौचिनो विधिप्रतिषेधरूपान्धर्मानभिधायाधुना आशौचनिमित्तं कालनियमं चाह- त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते । ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ १८ ॥ शवनिमित्तं शावम् । 'सूतक'शब्देन च जननवाचिना तन्निमित्तमाशौचं लक्ष्यते । एवं च वदता जननमरणयोराशौचनिमित्तत्वमुक्तं भवति । तच्च जनन- मरणमुत्पन्नज्ञातमेव निमित्तम् । 'निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च' ( मनुः ५।७७ ) इत्यादि लिङ्गदर्शनात् । तथा ( मनुः ५।७५ ) -'विगतं तु विदे- शस्थं शृणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥' इत्यादि- वाक्यान्यसामर्थ्याच्च । उत्पत्तिमात्रापेक्षत्वे ह्याशौचस्य दशाहाद्याशौचकालनिय- मास्तत्तत्प्रभृतिका एवेति अनिर्दशज्ञातिमरणश्रवणे दशरात्रशेषमेवा शौचमर्थात्सि- द्धयतीति 'यच्छेषं दशरात्रस्य' इत्यनारम्भणीयं स्यात् । तस्माज्ज्ञातमेव जननं मरणं च निमित्तम् । तच्चोभयनिमित्तमप्याशौचं त्रिरात्रं दशरात्रं चेष्यते मन्वादिभिः ॥ अत्राशौचप्रकरणे अहर्ग्रहणं रात्रिग्रहणं चाहोरात्रोपलक्षणार्थम् । मन्वादिभिः 'इष्यते' इति वचनं तदुक्तसपिण्डसमानोदकरूपविषयभेदप्रदर्शनार्थम् ॥ तथा हि ( मनुः ५।५९ ) -'दशाहं शावमाशौचं सपिण्डेषु विधीयते ।', 'जनने- ऽप्येवमेव स्यान्निपुणां शुद्धिमच्छताम् ॥' ( मनुः ५।६१ ) 'जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते' । ( मनुः ५।७१ ) 'शवस्पृशो विशुद्ध्यन्ति त्र्यहात्तूदकदा- १. अनुज्ञातमन्न ।

Page 464Permalink

४०८ याज्ञवल्क्यस्मृतिः यिनः ॥' ( मनुः ५।६४ ) इत्येतैर्वाक्यैस्त्रिरात्रदशरात्रयोः समानोदकसपिण्ड- विषयत्वेन व्यवस्था कृता । अतः सपिण्डानां सप्तमपुरुषावधिकानामविशेषेण दशरात्रम् , समानोदकानां त्रिरात्रमिति ॥ यत्पुनः स्मृत्यन्तरवचनम्-‘चतुर्थे दशरात्रं स्यात्षण्णिशः पुंसि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः सप्तमे त्वहरेव तु ॥’ इति, तद्विगीतत्वाच्चादरणीयम् । यद्यप्यविगीतं तथापि मधुपर्काङ्गपश्वालम्भनव- ल्लोकविद्विष्टत्वान्नानुष्ठेयम् । 'अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु, (आ० १५६) इति मनुस्मरणात् । नच सप्तमे प्रत्यासन्ने सपिण्ड एकाहो विप्रकृष्ट्राष्टमादिषु समानोदकेषु त्र्यहमिति युक्तम् । एवमविशेषेण सपिण्डादामाशौचे प्राप्ते कचि- द्वियमार्थमाह । ऊनद्विवर्षे संस्थिते उभयोरेव मातापित्रोर्दशरात्रमाशौचं न सर्वेषां सपिण्डानाम् । तेषां तु वक्ष्यति ‘आ दन्तजन्मनः सद्यः’ ( प्रा० २३ ) इति । तथा च पैङ्ग्यः—‘गर्भस्थे प्रेते मातर्दशाहं, जात उभयोः, कृते नाम्नि सोदराणां च' इति । अथवा अयमर्थः-ऊनद्विवर्षे संस्थिते उभयोर्मातापि- त्रोरेव अस्पृश्यत्वलक्षणमाशौचं न सपिण्डानाम् । तथा स्मृत्यन्तरे—‘ऊनद्विवर्षे प्रेते मातापित्रोरेव नेतरेषाम्' इति अस्पृश्यत्वलक्षणमभिप्रेतम् । इतरस्य पुनः कर्माण्यनधिकारलक्षणस्य सपिण्डेष्वपि ‘आ दन्तजन्मनः सद्यः’ ( प्रा० २३ ) इत्यादिभिर्विहितत्वात् । अत्र दृष्टान्तः—सूतकं मातुरेव हीति । यथा सूतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौचं मातुरेव केवलं तथोनद्विवर्षोपरमे मातापि- त्रोरेवास्पृश्यत्वमिति । ऊनद्विवर्षे सपिण्डानामस्पृश्यत्वं प्रतिषेधताऽन्यत्रास्पृश्य- त्वमभ्यनुज्ञातं भवति । तथा च देवलः—‘स्वाशौचकालाद्द्विज्ञेयं स्पर्शनं च त्रिभागतः । शूद्रविट्क्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥' इति । एतच्चानुपनीत- प्रयाणनिमित्ते अतिक्रान्ताशौचे च त्रिरात्रादौ वेदितव्यम् । उपनीतविषयेऽपि तेनैवोक्तम्—‘दशाहादित्रिभागेन कृते संचयने क्रमात् । अङ्गस्पर्शनमिच्छन्ति वर्णानां तत्त्वदर्शिनः ॥ त्रिचतुःपञ्चदशभिः स्पृश्या वर्णाः क्रमेण तु । भोज्यान्नो दशभिर्विप्रः शेषा द्वित्रिपञ्चोत्तरैः ॥’ इति । द्वयुत्तरैर्दशभिः त्र्युत्तरैर्द्वादशभिः पञ्च- त्तरैः पञ्चदशभिरिति द्रष्टव्यम् ॥ १८ ॥ भाषा-शव सम्बन्धी (मृत्यु के कारण) आशौच तीन दिन या दस दिन का होता है दो वर्ष से कम आयु के बालक का आशौच माता-पिता को होता है और सूतक ( जन्म के समय का आशौच ) केवल माता को ही होता है ॥ १८ ॥

जनननिमित्तमस्पृश्यत्वलक्षणमाशौचमाह- पित्रोस्तु सूतकं मातुस्तदङ्गदर्शनाद् ध्रुवम् । तदहर्न प्रदूष्येत पूर्वेषां जन्मकारणात् ॥ १९ ॥

Page 465Permalink

प्रायश्चित्ताध्यायः ४०६ सूतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौचं पित्रोर्मातापित्रोरेव, न सर्वेषां सपिण्डानाम् । तच्चास्पृश्यत्वं मातृध्रुवं दशाहपर्यन्तं स्थिरमित्यर्थः । कुतः ? तदसृग्दर्शनात् तस्याः संबन्धिस्वेनासृजो दर्शनात् । अत एव वसिष्ठः (४।२३) —'नाशौचं विद्यते पुंसः संसर्ग चेन्न गच्छति । रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यते ॥' इति । पितुस्तु ध्रुवं न भवति स्नानमात्रेणास्पृश्यत्वं निवर्तते, यथाऽऽह संवर्तः—'जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते । माता शुद्ध्येद्द- शाहेन स्नानात्तु स्पर्शनं पितुः ॥' इति । 'माता शुद्ध्येद्दशाहेन' इत्येतच्च संव्य- वहारयोग्यतामात्रम् । अदृष्टार्थेषु पुनः कर्मसु पैठीनसिना विशेष उक्तः—'सूतिकां पुत्रवतीं विंशतिरात्रेण कर्माणि कारयेत् । मासेन स्त्रीजननीम्' इति । अङ्गिरसा च सपिण्डानाम् अस्पृश्यत्वाभावः स्पष्टीकृतः—'सूतके सूतिकावर्ज्य संस्पर्शो न निषिध्यते । संस्पर्शे सूतिकायास्तु स्नानमेव विधीयते ॥' इति । यस्मिन्द्दिवसे कुमारजननं तदहर्न प्रदुष्येत् । तन्निमित्तदानाद्यधिकारापहारकृन्न भवतीत्यर्थः । यस्मात्तस्मिन्नहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्म उत्पत्तिस्तस्मात्तदहर्न प्रदु- ष्येत् । तथा च वृद्धयाज्ञवल्क्येनोक्तम्—'कुमारजन्मदिवसे विप्रैः कार्यः प्रति- ग्रहः । हिरण्यभूगवाश्वाजवासःशय्यासनादिषु ॥ तत्र सर्वं प्रतिग्राह्यं कृतान्नं नतु भक्षयेत् । भक्षयित्वा तु तन्मोहाद् द्विजश्चान्द्रायणं चरेत् ॥' इति ॥ व्यासेनाप्यत्र विशेष उक्तः—'सूतिकावासनिलया जन्मदा नाम देवताः । तासां यागनिमित्तं तु शुचिर्जन्मनि कीर्तिता ॥ प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा । त्रिष्वेतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥' मार्कण्डेयेनाप्युक्तम्—'रक्षणीया तथा षष्ठी निशा तत्र विशेषतः । रात्रौ जागरणं कार्य जन्मदानां तथा बलिः ॥ पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः । रात्रौ जागरणं कुर्युर्दशम्यां चैव सूतके ॥' इति ॥ १९ ॥ भाषा—जन्म का सूतक (अस्पृश्यत्व) माता-पिता को ही होता है (सभी सपिण्डों को नहीं), उसमें भी माता का रुधिर दिखाई पड़ने से उसे निश्चित रूप से (दस दिन तक) सूतक होता है। जिस दिन बालक का जन्म होता है वह दिन दान आदि के लिए अशुद्ध नहीं होता, क्योंकि पूर्वपुरुष (पितर) ही पुत्र के रूप में जन्म लेते हैं ॥ १९ ॥ आशौचमध्ये पुनर्जन्मने मरणे वा जाते 'प्रतिनिमित्तं नैमित्तिकमावर्तते' इति न्यायेन पुनर्द्दशाहाद्याशौचप्राप्तौ तदपवादमाह— अन्तरा जन्ममरणे शेषाद्होभिर्विशुद्धयति । वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावानाशौचकालस्तदन्तरा तत्समस्य ततो न्यूनस्य वाऽऽशौचस्य निमित्तभूते जनने मरणे वा जाते पूर्वां शौचा- वशिष्टैरेवाह्नोभिर्विशुद्धयति । न पुनः पश्चादुत्पन्नजननादिनिमित्तं पृथ-

Page 466Permalink

४१० याज्ञवल्क्यस्मृतिः

द्वपृथगाशौचं कार्यम् । यदा पुनरल्पाद्वर्तमानाशाैचाद्दीर्घकालमाशौचमन्तरा पतति तदा न पूर्वशेषेण शुद्धिः । यथाऽऽहोशनाः—‘स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद्यदि । न पूर्वेण विशुद्धिः स्यात्स्वकालेनैव शुद्ध्यति ॥’ इति । यमोऽप्याह—‘अघवृद्धिमदाशौचं पश्चिमेन समापयेत्’ इति । अत्र ‘चान्तरा जन्ममरणे’ इति यद्यप्यविशेषेणाभिहितं, तथापि न सूतकान्तर्वर्तिनः शावस्य पूर्वाशौचशेषेण शुद्धिः । यथाहाङ्गिराः—‘सूतके मृतकं चेत्स्यान्मृतके त्वथ सूत- कम् । तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकम् ॥’ इति । तथा षट्त्रिंशन्मते- ऽपि- ‘शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् । शावेन शुद्ध्यते सूतिर्न सूतिः शावशोधिनी ॥’ इति । तस्मान्न सूतकान्तःपातिनः शावाशौचस्य पूर्वशेषेण शुद्धिः, किंतु शावान्तःपातिन एव सूतकस्य । तथा सजातीयान्तःपातित्वेऽपि शावस्य क्वचिदपूर्वशेषेण शुद्धेरपवादः स्मृत्यन्तरे दर्शितः—‘मातर्यग्रे प्रमीताया- मशुद्धौ म्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ॥’ इति । अयमर्थः—मातरि पूर्वं मृतायां तन्निमित्ताशौचमध्ये यदि पितुरुपरमः स्यात्तदा न पूर्वशेषेण शुद्धिः, किंतु पितुः प्रायणनिमित्ताशौचकालेनैव शुद्धिः कार्या । तथा पितुः प्रायणनिमित्ताशौचमध्ये मातरि स्वर्यातायामपि न पूर्वशेषमात्राच्छुद्धिः किंतु पूर्वाशौचं समाप्योपरि पक्षिणीं क्षिपेत् इति ॥ तथाऽऽशौचसन्निपातकाल- विशेषकृतोऽप्यपवादो गौतमेनोक्तः ( १४।७, ८ )—‘रात्रिशेषे सति द्वाभ्यां प्रभाते तिसृभिः’ इति । अयमर्थः—रात्रिमात्रावशिष्टे पूर्वाशौचे यद्याशौचान्तरं सन्नि- पतेत्तर्हि पूर्वाशौचं समाप्यानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धिः । प्रभाते पुनस्तस्या रात्रेः पश्चिमे यामे जननाशौचान्तरसन्निपाते सति तिसृभी रात्रिभिः शुद्धिः, न पुनस्तच्छेषमात्रेण । शातातपेनाप्युक्तम्—‘रात्रिशेषे द्वयहाच्छुद्धिर्यामशेषे शुचिस्त्र्यहात्’ इति । प्रेतक्रिया पुनः—‘सूतकसंनिपातेऽपि न निवर्तत’ इति तेनैवो- क्तम्—‘अन्तर्दशाहे जननात्पश्चात्स्यान्मरणं यदि । प्रेतमुद्दिश्य कर्तव्यं पिण्डदानं स्वबन्धुभिः ॥ प्रारब्धे प्रेतपिण्डे तु मध्ये चेज्जननं भवेत् । तथैवाशौचपिण्डांस्तु शेषान्दद्याद्यथाविधि ॥’ इति । तथा शावाशौचयोः सन्निपातेऽपि प्रेतकृत्यं कार्यम्; तुल्यन्यायत्वात् । तथा जातकर्मादिकमपि पुत्रजन्मनिमित्तकमाशौचान्त- रसन्निपातेऽपि कार्यमेव । यथाह प्रजापतिः—‘आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुद्ध्यति ॥’ इति ॥

पूर्णप्रसवकालजननाशौचमभिधायाधुना अप्राप्तकालगर्भनिःसरणनिमित्तमा- शौचमाह— गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ॥ २० ॥

पाठा०—१. अहोवृद्धिमत् । २. शावस्य ।

Page 467Permalink

प्रायश्चित्ताध्यायः ४११ स्रवतिर्यद्यपि लोके द्रवद्रव्यकर्तृके परिस्पन्दे प्रयुज्यते, तथाऽप्यत्र द्रवाद्ववद्रव्यसा- धारणरूपेऽधःपतने वर्तते । कुतः ? द्रवत्वस्य प्रथममास एव संभवात्तत्र च 'मास- तुल्या निशाः' इति बहुवचनानुपपत्तेः । गर्भस्रावे यावन्तो गर्भग्रहणमासास्त- त्समसंख्याका निशाः शुद्धेः कारणम् । एतच्च स्त्रिया एव; 'गर्भस्रावे मासतुत्या रात्रयः स्त्रीणां, स्नानमात्रमेव पुरुषस्य' इति वृद्धवसिष्ठस्मरणात् । यत्पुनर्गौतमेन 'त्र्यहं च' (१४।१८) इति त्रिरात्रमुक्तं,-तन्मासत्रयादर्वाग्वेदितव्यम्; 'गर्भस्रुत्यां यथामासमचिरे तूत्तमे त्रयः । राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव तु ॥ अष्टाहन तु शूद्रस्य शुद्धिरेषा प्रकीर्तिता ॥' इति मरीचिस्मरणात् । अचिरे मासत्रयादर्वाक् गर्भस्रावे उत्तमे ब्राह्मणजातौ त्रिरात्रमित्यर्थः । एतच्च षष्ठमासपर्यन्ते द्रष्टव्यम् । सप्तमादिषु पुनः परिपूर्णमेव प्रसवाशौचं कार्यम् ; तत्र परिपूर्णाङ्गगर्भस्य जीवतो निर्गमदर्शनात् । तत्र च लोके 'प्रसव'शब्दप्रयोगात्, 'षण्मासाभ्यन्तरे यावद्गर्भस्रावो भवेद्यदा । तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते ॥ अत ऊर्ध्वं स्वजात्युक्तं तासामाशौचमिष्यते । सद्यःशौचं सपिण्डानां गर्भस्य पतने सति ॥' इति स्मरणात् ॥ एतच्च सपिण्डानां सद्यःशौचविधानं द्रबभूतगर्भपतने वेदितव्यम् । यत्पुनर्वसिष्ठवचनम् (४।३४) —'ऊनद्विवार्षिके प्रेते गर्भस्य पतने च सपिण्डानां त्रिरात्रम्' इति,-तत्पञ्चमषष्ठयोः कठिनगर्भपतनविषयम्; 'आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः । अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत् ॥ स्रावे मातुस्त्रिरात्रं स्यात्सपिण्डाशौचवर्जनम् । पाते मातुर्य- थामासं पित्रादीनां दिनत्रयम् ॥' इति मरीचिस्मरणात् ॥ सप्तममासप्रभृति मृतजनने जातम्ते वा सपिण्डानां जनननिमित्तं परिपूर्णमाशौचम् ; 'जातम्ते मृतजाते वा सपिण्डानां दशाहम्' इति हारीतस्मरणात् , ''अतः सूतके चेदो- त्थानादाशौचं सूतकवत्' इति पारस्करवचनाच्च । आ उत्थानादासूतिकाया उत्था- नाह्नाहामिति यावत् । सूतकवदिति शिशूपरमनिमित्तोदकदानरहित मित्यर्थः । बृहन्मनुरपि—'दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः । शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ॥' इति । तथा च स्मृत्यन्तरोऽपि—'अगतदशाहोपरतस्य सूतिकाद्दोभिरेवाशौचम्' इति । एवमादिवचननिचयपर्यालोचनया सपिण्डानां जनननिमित्ताशौचसंकोचो नास्तीति गम्यते । यत्पुनर्बृहद्विष्णुवचनम्—'जाते मृते मृतजाते वा कुलस्य सद्यःशौचम्' इति,-तच्छिशूपरमनिमित्तस्याशौचस्य स्नानाच्छुद्धिप्रतिपादनपरं न प्रसविनिमित्तस्य । तथा च पारस्करः—'गर्भे यदि विपत्तिः स्याद्दशाहं सूतकं भवेत्।' सपिण्डानां प्रसविनिमित्तस्य विद्यमानत्वात् ।- 'जीवञ्जातो यदि प्रेयात्सद्य एव विशुद्ध्यति' इति प्रेताशौचाभिप्रायम् । तथा च १. पर्यंतम् । २. अत ऊर्ध्व प्रसबो दशाद्दम् ।