BharatKosha
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

by महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री)

DevanagariHindipublished278 pages

Page 11 of 278

Read in context
Page 11

अवतरणिका । —*— इह खलु भोज-भूपालोऽशेषशास्त्र-विशारदः निखिलनृपति- मुकुटाभरणो धारानगरीनाथः । एतन्नाम्नाऽन्येपि प्राञ्चो नृपालाः पूर्वमनेके आसन् । तथाच ऋग्वेदे * “भोजा याश्वं संमृजन्त्याशुं भोजायास्ते.........भोजस्येदं पुष्करिणीव वेश्म”......... । अत्र दक्षिणा नाम प्रजापतेर्दुहिता, तया सूक्तात्मनः स्तुतिसम्बन्धं दृष्टम् । तत्रैषा जगती दातृ-प्रशंसा । ‘भोजाय’ राज्ञे ‘अश्वं आशुम्’ शीघ्रम् ‘संमृजन्ति’ संमार्जयन्ति-स्नापयन्ति भृत्याः । किञ्च,— भोजाय उद्वहनार्थं अन्यान् वरानपास्य ‘शुम्भमाना’ स्वलङ्कृता शोभ- माना-‘कन्या’ ‘आस्ते’ स हि तामर्हतीत्यभिप्रायः । किञ्च, भोजस्य ‘इदं’ ‘वेश्म’ गृहं परिष्कृतम्, ‘पुष्करिणी’ ‘देवमाना इव’ पुष्करै- र्दैवतं विमानमिव......... । इति निरुक्त दैवतकाण्डवृत्तौ श्रीम- दुर्गाचार्याः । नायं वैदिको भोजोऽस्य प्रणेता धाराधीशो वा । एवं महाभारते † पुराणे च भोजः भोजकट-देशश्च प्रख्यातोऽस्ति ।

  • ऋक् सं ८।६।४।५ । निरुक्ते अः ७, खः ३ । † महाभारते आदिपर्वणि तृतीयाध्याये,—द्रुह्युतनयानां नाम भोज इत्यासीत् । कुन्त्याश्च पालक-पिता, अस्य तु नाम कुन्तीभोज इति । जरासन्धाधीन जनैकनृपतिः । अयोध्यायां कोऽपि नरेश स्तन्नाम्नासीत् । तथैवोत्कलदेशे कोऽपि नृपतिः । वङ्गदेशे तन्नाम्ना बहवो नृपाला आसन् । जैतपुर्रीय प्राचीनलेखे भोजनाम्ना नरेश आसीत् । तथैव कान्य- कुब्जे तन्नाम्ना नरपाल आसीत् । इति डाक्तरराजराजेन्द्रलालमित्रेणोक्तम् । एतन्मतेऽपि