युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
by महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री)
Page 116 of 278
Read in context७६ युक्तिकल्पतरौ— एषां पूर्ववदुन्नेयं जाति-दोष-गुणादिकम् ॥ ६८ ॥ स्थलजे जलजे चैव भाव्यमेतद्विशेषणम् । स्थलजं सुखदह्यं हि दाहे मिषमिषायते ॥ ६६ ॥ जलजं बह्निदुर्दह्यं महान्तं धूममुद्गीरेत् (४) । चामराणां समुद्दिष्टमित्येवं लक्षणद्वयम् । एवं विमृश्य यो धत्तेःस राजा सुखमश्नुते ॥ ७० ॥ जलजं चामरं राजा यो धत्ते जाङ्गलेश्वरः । तस्याचिरात् कुलं वीर्यं लक्ष्मोरायुश्च नश्यति ॥ ७१ ॥ अनूपाधीश्वरो राजा यो वहेत् स्थलजं तथा । तस्यैतानि विनश्यन्ति लक्ष्मोरायुर्यशोवलम् ॥ ७२ ॥ नालं वर्णद्वये तेषां विधेयं शिल्पिनां क्रमात् । संस्कारो वालुकायन्त्रे(यान्तु) मसूर-सलिलादिभिः (५) ॥७३॥ एषां कृत्रिमदण्डत्वं प्रतिभाति यदा क्वचित् । तदोष्ण-सलिल-क्वाथात् कृत्रिमत्वं विपद्यते ॥ ७४ ॥ इति श्रीभोजराजीय युक्तिकल्पतरौ उपकरणयुक्तौ चामरोद्देशः ॥ ————*———— अथ भृङ्गारोद्देशः । राज्ञोऽभिषेक-पात्रं यद् 'भृङ्गार' इति तन्मतम् । तदष्टधा तस्य मानमाकृतिश्चापि चाष्टधा ॥ ७५ ॥ सौवर्णं राजतं भौमं ताम्रं स्फाटिकमेव च * । चान्दनं लोहजं शार्ङ्गमेतदष्टविधं मतम् ॥ ७६ ॥ (४) मुद्गिरेत् इति (२) पुस्तक पाठः । (५) मस्तुसलिलादिभिः इति (२) पुस्तक पाठः ।
- 'सौवर्णमित्यारभ्य-उन्निता' इत्यन्तं सार्द्धश्लोकी (ख) पुस्तके नास्ति ।