BharatKosha
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

by महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री)

DevanagariHindipublished278 pages

Page 14 of 278

Read in context
Page 14

( ११० )

त्वयि कापालिके भुवन-चमत्कारौकलावशेषः औषधि-विशेषो वास्ति । ततो राजाप्याह—मया सहसा हतं सुतं रक्ष । सोऽब्र- वोत् नृपेन्द्र ! माभैसीः तनयस्ते नाथ-प्रसादेन नैवमरिष्यति । प्रातस्तव गेहं स्वयमेव समेष्यति, परं श्मशानभूमौ बुद्धिसागर सचिवेन सह होमद्रव्यसम्भारं प्रेषय । कापालिकेन यदुक्तं तत् सर्व्वं भूपालेन सम्पाद्य बुद्धिसागरामात्यः प्रेषितः । ततश्च यामिन्यां निगूढ़तया वत्सराजगेहाद्-भोजस्तत्र सरित् पुलिनं नीतः । तपस्विना भोज कुमारः पुनर्जीवित इति जनश्रुतिः सर्व्वतोऽप्यजायत । ततः पौरामात्यैः परिवृतो भोजोराजसदनमागतः । ततस्तमालिङ्ग्य रुदन्तं मुञ्जं निवार्य्य भोजः स्तौति । ततो राजा लज्जावनतशिरा सन् स्वीय-सिंहासने भोजमुपवेश्य राज्यभारं समर्प्य वनं गतः । ततो मुञ्जे वनं प्रस्थिते बुद्धिसागरं श्रेष्ठामात्यं विधाय भोजः स्वयं राज्यसुखं बुभुजे । ततो राजपरिषद सहस्रशः सूरिवरा चतुर्दिग्भ्यः समा- जग्मुः । ततो राजा सचिवं प्रत्याह, “लक्षं महाकवेर्देयं तदर्द्धं विवुधस्यच......” इति । ततः क्रमेण वररुचि-सुबन्धु-बाणामर- वामदेव-हरिवंश-शङ्कर--कलिङ्ग-कर्पूर-विनायक-मदन-विद्याविनोद- कोकिल-तारेन्द्र प्रमुखाः सर्वशास्त्रविशारदाः सर्वज्ञा इव बुधवरा राजसभामहर्निशमलङ्कुर्व्वन्ति । कियत्कालानन्तरं कविराज-कालि- दासे समागते तेन सार्द्धं भूपेन्द्रस्य परमाप्रीतिरजायत । अन्यत् भोजप्रबन्धे विस्तृतमस्ति । केचित् सूरयः अस्यैरेन्द्रजालिकविद्यां, अपरेतु भोजविद्यां वानुमिमते । अपरेतु शैवतन्त्रोक्ता कामसूत्र- व्याख्यातृ-यशोधरेणोल्लिखिताः चतुःषष्टिकलाविद्याःसन्ति तास्वे- वान्तर्नीता ऐन्द्रजालिकविद्या इति वदन्ति । अन्येतु—यदा यवनमहावीर मामुदगजनो कालञ्जरं समवरुरोध, तदैव भोजनृपतिर्यवनसैन्यं सर्वथा जघान । चालुक्य भूपाला अस्य

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक) · Page 14 of 278 · BharatKosha