युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
by महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री)
Page 183 of 278
Read in contextअस्त्रयुक्तिः । १४३ पुत्रिका चामरः शैलः पुष्पमाला भुजङ्गमः । त्रिंशदेतानि नेत्राणि खङ्गानां कथितानि वै ॥ ५५ ॥ अथ त्रिंशदरिष्टानि । क्षुद्रं (१) काकपदं रेखा भेको मूषिक एव च । विडालः शर्करा नीली मशको भृङ्गसूचके ॥ ५६ ॥ त्रिविन्दुः (२) कालिका पावी (दारौ) कपोतः काक एव च । खर्परः शकली क्रोड़ी कुणपुत्रकजालिके ॥ ५७ ॥ करालकङ्कखर्जूर शृङ्गपुच्छ खनित्रकम् । लाङ्गलं शूर्पं वडिशो मुनिना तत्त्ववेदिना ॥ ५८ ॥ प्रोक्तान्येतान्यरिष्टानि खङ्गानां त्रिंशदेव हि । दिव्य भौमविभागेन भूमिस्तु द्विविधा भवेत् ॥ ५९ ॥ हंसकांस्याभ्रढक्कानां काकतन्त्री खराश्मनाम् । ध्नयोऽष्टविधाः प्रोक्ता नागार्जुन-मुनेर्मताः ॥ ६० ॥ उत्तमाधम भेदेन मानन्तद्द्विविधं भवेत् । इति प्रोक्तानि सूत्राणि खङ्गानां ज्ञानहेतवे ॥ ६१॥ एतानि तत्त्वतो ज्ञात्वा भवेन्नृपति-पूजितः ॥ ६२ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खड्गपरीक्षायां सूत्राध्यायः । तत्र प्रथमोऽङ्गानां लक्षणानि निबोधतः ॥ लौहद्वीपे,— रौप्यपत्रसमा भूमिरङ्गं श्वेतं प्रतीयते । अङ्गं तत्तु महामूल्यं रूप्यवज्रमुशन्ति तम् ॥ ६३ ॥ (१) छत्रं इति (क) पुस्तक पाठः । (२) त्रिविदुः इति (ख) पुस्तक पाठः ।