युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
by महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री)
Page 200 of 278
Read in context१६० युक्क्तिकल्पतरौ— नीलवर्णः कृष्णवर्णः संस्कारे निर्मलो भवेत् । शाणेन खरता चास्य घाततुल्यं निकृन्तति ॥ ३१ ॥ वैश्यजातिरियं खङ्गः क्षते लब्धात्रदर्शनम् (१७) † नात्युत्कृष्टो नातिहीनः सर्व्वत्रै वोपलभ्यते ॥ ३२ ॥ सजलाभोदसङ्काशः स्थूलधारो मृदुखरः । संस्कारे चैव मलिनः शाणे चापि खरेतरः ॥ ३३ ॥ शूद्रजातिरियं खङ्गः क्षते नाल्पापि वेदना । दूराद्देषो(१८)ऽधमस्त्याज्यो यदीच्छेद्धितमात्मनः ॥ ३४ ॥ प्रायशः सर्वलोकेषु स्वयमेवोपदृश्यते । द्वयोर्लक्षणमालोक्य जारजं खङ्गमादिशेत् ॥ ३५ ॥ त्रयाणां लक्षणेनैव त्रिजातिं खङ्ग(१९)मादिशेत् । चतुर्णां लक्षणेनेव जाति-सङ्करमुच्यते ॥ ॥ ३६ ॥ इति लौहार्णवस्य खङ्गपरीक्षायां जात्यध्यायः । अथ त्रिंशन्नेत्राणां लक्षणानि ॥ अङ्गं स्यात् सर्व्वतो वापि नेत्रमेकत्रसंस्थितम् * । अतः परन्तु नेत्राणां लक्षणं संप्रवक्ष्यते ॥ ३७ ॥ नेत्रे णैकेन हस्तेन निन्दितोपि प्रशस्यते । तथा जाति विहीनोपि गुणवान् पूज्यते नरः ॥ ३८ ॥ खङ्गः सदङ्गो न च नेत्र हीनो न पूज्यते नाम्बुकरः स एवः । यथा मनुष्यः खलु सुन्दराङ्गो नकर्मयोग्यो भुवि नेत्रहीनः ॥ ३९ ॥ ( १७ ) क्षतेवं नात्रदर्शनं इति (क) पुस्तक पाठः । ( १८ ) देशो इति (ख) पुस्तक पाठः । ( १९ ) शङ्क इति (ग) पुस्तक पाठः ।
- अङ्गमत्यारभ्य भुविनेत्रहीन इत्यन्तं श्लोकत्रयं (ख) पुस्तके अधिकं पठ्यते । CC-0. Gurukul Kangri Collection, Haridwar.