बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
by महर्षि बौधायन
Source: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (origin)
Page 246 of 486
Read in context१९४ बौधायन-धर्मसूत्रम् [ प्रायश्चित्तम्
अनु०—किन्तु पति के प्रति कर्त्तव्यों का उल्लंघन करने पर कृच्छ्रव्रत का प्रायश्चित्त करना होता है ॥ ४९ ॥
व्यतिक्रमः परपुरुषनिमित्तो मानसेन वाचिकेन व्यापारः । समानजातीय-विषयमेतद्बुद्धिपूर्वं च ॥ ४९ ॥
शूद्रे चान्द्रायणं चरेत् ॥ ५० ॥
अनु०—शूद्र के संयोग द्वारा पति के प्रति कर्तव्य का उल्लंघन करने पर स्त्री चान्द्रायण व्रत करे ॥ ५० ॥
टि०—यह नियम द्विजाति वर्ण की स्त्री के लिए समझना चाहिए ।
यदा पुनः स्वभर्तृबुद्ध्या मैथुनाय सङ्कल्पयते सम्भाषते वा असमानजाती-येन शूद्रेण तदा चान्द्रायणम् । शूद्रे व्यवायस्य कर्तरि सति द्विजातिस्त्री चान्द्रायणं चरेत् कुर्यात् । अप्रजायामेतत् । कुतः ?
ब्राह्मणक्षत्रियविशां स्त्रियश्शूद्रेण सङ्गताः ॥
अप्रजास्ता विशुद्ध्यन्ति प्रायश्चित्तेन नेतराः ॥
इति वसिष्ठः ॥ ५० ॥
वैश्यादिषु प्रतिलोमं कृच्छ्रातिकृच्छ्रादींश्चरेत् ॥ ५१ ॥
अन०--वैश्य आदि पुरुषों के संयोग द्वारा वर्ण के प्रतिलोम के क्रम से नियमो-ल्लघंन करने पर कृच्छ्र या अतिकृच्छ्र व्रत करे ॥ ५१ ॥
टि०--ब्राह्मणी का वैश्य से संबन्ध होने पर ब्राह्मणी कृच्छ्रातिकृच्छ्र व्रत करे, क्षत्रिय पुरुष से संबन्ध होने पर अतिकृच्छ्र व्रत करे तथा क्षत्रिय वर्ण की स्त्री का वैश्य से संसर्ग होने पर वह कृच्छ्र व्रत करे ।
वैश्ये क्षत्रिये च व्यवायस्य कर्तरि सतीत्यर्थः । बहुवचनं ब्राह्मण्याः द्वौ कर्त्तारौ क्षत्रियायाः एक इति त्रयः । प्रतिलोमं व्युत्क्रमेणेत्यर्थः । आदिशब्दात् प्राग्द्वौ गृहीतौ । कृच्छ्रातिकृच्छ्रः । अतः कृच्छ्रप्रक्रमा एते त्रयः अस्मिन् क्रमेणैवं प्रातिलोम्यं वैश्यसम्बन्धे ब्राह्मण्याः कृच्छ्रातिकृच्छ्रः । अस्या एव क्षत्रियसम्बन्धे सत्यतिकृच्छ्रः । क्षत्रियायास्तु वैश्यसंसर्गे कृच्छ्र इति । अमतिपूर्वे तु वसिष्ठ आह—
'प्रतिलोमं चरेयुस्ताः कृच्छ्रं चान्द्रायणोत्तरम्' अत्र प्रातिलोम्यं प्रथमं भोजनं ततः त्र्यहमयाचितमित्यादि । 'चान्द्रायणे वा चान्द्रायणानि' इति गुरुलघुभावे वर्णविशेषे अभ्यासविशेषे चेति व्याख्यातं यज्ञस्वामिभिः ॥ ५१ ॥