BharatKosha
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

by आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य)

DevanagariHindipublished366 pages

Page 126 of 366

Read in context
Page 126

शेषमिति। अत्र चतुर्भागीयाभिरेवेति न नियम्यते। ताभिः पूरयितुमश- क्यत्वात्। पाद्याभिरिति। चतुर्थीभिः प्रच्छादिते द्विशतसंख्या न पूर्यते। तत्र अर्द्धा- सहिताभिः पाद्याभिः संख्यां द्विशतसंख्यां पूरयेत्। तत्रैवमुपधानम्। शिरोवर्जं पुच्छेन सह आत्मनि उदीच्यो द्वादशरीतयः। तत्र पुच्छाग्रे मध्यतः षट् चतुर्थ्यः। पार्श्वयोरर्धे। द्वितीयरीत्यां पार्श्वयोरर्ध्ये मध्ये षोडशपाद्याः। तृतीयस्यां मध्ये द्वे चतुर्थ्यौ पार्श्वयोर्द्वे द्वे पाद्ये। चतुर्थ्यां पञ्च पाद्याः पूर्वोक्ताः। पञ्चम्यां पार्श्वयोरर्ध्ये मध्ये तिस्रश्चतुर्थ्यः। ततः पञ्चसु पञ्च पञ्च चतुर्थ्यः। तत्र अष्टम्यां मध्यामुद्धृत्य द्वे अर्ध्ये। पञ्चमीवदेकादशी। ततः पूर्वोक्ताः पञ्च पाद्याः। शिरसि चतुर्दश पूर्वमेवोक्ताः। पक्षयोः पत्त्राणि पञ्चार्ध्याः। तत्र दक्षिणपक्षस्थाः प्रागुत्तरविशेषाः। विप- रीता इतराः। तत्र पक्षयोः प्राच्यः षट् षड्रीतयः। तत्र दक्षिणे पक्षे दक्षिणादारभ्य मध्ये चतस्रश्चतुर्थ्यः पश्चात् पुरस्ताच्च अर्ध्ये। एवं द्वितीया। तृतीयस्यामादितः सप्त अर्ध्या उपधाय ततो दक्षिणपूर्वकण्णां अर्ध्यामेकामुपधाय ततश्चतस्रः पाद्याः संहिताग्रा उपदध्यात्। एवं चतुर्थी रीतिः। पञ्चम्यां आदितोऽर्ध्या ततस्तिस्रश्चतुर्थ्यस्ततोऽर्ध्या- त्रयम्। दक्षिणारीतिवत् षष्ठी रीतिः। एवमुत्तरः पक्षः। एवं षट्चत्वारिंशदात्मनि। शिरसि चतुर्दश। द्वात्रिंशत् पुच्छे। पक्षयोरष्टशतम्। अस्मिन् प्रस्तारे नवषष्टिश्चतुर्थ्यः। अर्ध्याः द्वासप्ततिः। पाद्याः द्विपञ्चाशत्। षट् चतुरस्रपाद्याः। एका हंसमुखी। एष द्विशतः प्रस्तारः॥ ४१॥ अपरस्मिन् प्रस्तारे हंसमुखीश्चतस्रश्चतसृभिः पादेष्टकाभिः- संयोजयेद् यथा दीर्घचतुरश्रं संपद्यते। तत्तिर्यक् स्वयमातृण्णा- वकाश उपदध्यात्॥ ४२॥ अपरस्मिन्निति। यथेति। चतस्रो हंसमुखीः परस्परसंश्लिष्टमुखा उपधाय पार्श्वद्वयोर्वा (हंसविशेष पाद्याद्वये मध्येऽन्तः सविशेषो पाद्याद्वये) चोपधीयमाने दीर्घचतुरश्रं भवतीति वेदितव्यम्। एवमुपधानप्रकारमभिधाय स्थलं निर्दिशति—तदिति। दीर्घचतुरश्रमित्यर्थः। तिर्यगिति। दक्षिणो- त्तरदीर्घमित्यर्थः. (?) ॥ ४२॥ अपरस्मिन्निति। एवं कृत्वा उपदध्यादिति विवक्षितम्। ईदृग्रूपा इष्टका उपदध्यादित्यर्थः। तत्रैवमुपधानम्। स्वयमातृण्णावकाशमध्यं गृहीत्वा पदत्रयव्यासं प्रक्रम- द्वयदीर्घं दीर्घचतुरस्रं दक्षिणोत्तरं बुद्ध्या परिकल्प्य चतुरस्रपूर्वपार्श्वे प्रत्यगग्रे द्वे