BharatKosha
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

by आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य)

DevanagariHindipublished366 pages

Page 128 of 366

Read in context
Page 128

तत्र प्रथमपश्चिमपत्राग्रे प्रागग्रा पाद्या, तस्या उत्तरतः प्रत्यगग्रा पाद्या, तस्याः पुरस्तात् उत्तरपूर्वदीर्घबाह्यकर्णा पादेष्टकादीर्घपार्श्वेन प्रक्रमेण संगतां अर्धेष्टका- मुपदध्यात्। एवं पञ्चपत्त्वेपूपधानम्। विशये पक्षात्मसन्धिषु निर्णामाद्यन्तेषु यदपच्छिन्नं क्षेत्रं तस्मिन् अर्धेष्टकाः पादेष्टकाश्च यथासम्भवमुपदध्यात्। विशय उक्तार्थः ॥ ४४ ॥ शेषमग्निं चतुर्भागीयाभिः प्रच्छादयेत्। पाद्याभिः साध्याभिः संख्यां पूरयेत् ॥ ४५ ॥ शेषमिति। पूर्वमेव व्याख्यात। तत्रैवमुपधानम्। पुच्छे विशयस्थरीत्या सह उदीच्यश्चतस्रो रीतयः। तत्र प्रथमं पुच्छाग्रे पञ्च- दश पादेष्टकाः पूर्वमुक्ताः। ततः पूर्वस्यां मध्ये पञ्च चतुर्थ्यः पार्श्वयोरर्ध्ये। तृतीयायां मध्ये तिस्रश्चतुर्थ्यः पार्श्वयोरर्ध्ये। सन्धिरीत्यां प्रागग्रास्तिस्रः पादेष्टकाः। तासां पुरस्तात् प्रत्यगग्रं हंसमुखीद्वयं व्यतिषक्तमुपदध्यात्। एवं पञ्चेष्टका सन्धिरीतिः। तत्रात्मनि पक्षयोश्च प्रागायता अष्टादशरीतयः। तत्र आत्ममध्यमे रीती शिरसा सह। तत्र आत्ममध्यमरोत्योर्दक्षिणा उच्यते। पूर्वं पुच्छात्मसन्धिरीत्यां दक्षिणतः प्रत्यगग्रं उपहिताया हंसमुख्याः पुरस्तात् तिस्रश्चतुर्थ्यः। ततः प्रागग्रा हंसमुखी (तस्याः पुरस्तात् प्रत्यगग्रा हंसमुखी इति थिवो महाशयेनानुमितः पतितः पाठः) पूर्वहंसमुख्या अग्रेणाग्रसंगता। तयोर्मध्ये दक्षिणत उत्तरतश्च उदग्दक्षिणाग्रे पादेष्टके। एवमुपहितचतुष्टयस्य पुरस्तात् तिस्रश्चतुर्थ्यः। ततः पञ्च अर्धेष्टकाः। एवं पञ्चदशेष्टका रीतिः। ततो दक्षिणस्यां चतुर्दशार्धेष्टकाः। ततः पक्षात्मविशयरीत्यां पश्चाद् अर्धे- ष्टका ततश्चतस्रश्चतुर्थ्यः। ततः सन्धौ मध्यतः प्रागग्रा पाद्या। पार्श्वयोर्दक्षिणो- त्तराग्रे द्वे पादेष्टके। एवं पाद्यात्रयमग्रेण संगतं भवति। एवं अष्टेष्टका सन्धिरीतिः। तस्या दक्षिणतो रीतिद्वयेनाष्टौ चतुर्थ्यः। पार्श्वयोश्चतस्र अर्धेष्टकाः। निर्णामरीत्यां आदौ मध्यतः प्रत्यगंरा पादेष्टका। तस्या दक्षिणत उत्तरतश्च उदग्दक्षिणाग्रे द्वे पादेष्टके। एवं पाद्यात्रयं अग्रसङ्गतं भवति। ततः चतस्रश्चतुर्थ्यः। तत एका पाद्या प्रागग्रा। एवं अष्टेष्टका रीतिः। ततो रीतिद्वयेन अष्टौ चतुर्थ्यः। पार्श्वयोश्चतस्र अर्ध्याः तयोर्दक्षिणा रीतिः पत्त्रैः सह पूर्वमेवोक्ता पञ्चदशेष्टकात्मिका। उत्तरपार्श्वस्याप