दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 13 of 474
Read in contextप्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १३ (२१) तदनुज्ञातेन तेन स संयमी नृपसमीपमनायि । (२२) भूपतिरायान्तं तं विलोक्य सम्यग्ज्ञाततदीयगूढचारभावो निखिलमनुचरनिकरं विसृज्य मन्त्रिजनसमेतः प्रणतमेनं मन्दहासम- भाषत-'ननु तापस ! देशं सापदेशं भ्रमन्भवांस्तत्र तत्र भवदभिज्ञातं कथयतु' इति । (२३) तेनाभाषि भूभ्रमणबलिना प्राञ्जलिना-'देव ! शिरसि देव- स्याज्ञामादायैनं निर्दोषं वेषं स्वीकृत्य मालवेन्द्रनगरं प्रविश्य तत्र गूढतरं वर्तमानस्तस्य राज्ञः समस्तमुदन्तजातं विदित्वा प्रत्यागमम् । (२४) मानी मानसारः स्वसैनिकायुष्मत्तान्तराये संप्राये भवतः (२१) तदनुमतेन राज्ञादिष्टेन । तेन द्वारपालेन । संयमी यतिः । अनायि नीतः (२२) सम्यक् सुष्ठु ज्ञातोऽवगतस्तदीयस्तत्सम्बन्धी गूढः प्रच्छन्नश्चारभावः चरत्वं येन सः । प्रणतं कृतनमस्कारम् । एनं यतिम् । मन्दहासं क्रियाविशेषणमि- दम् । ईषद्व हसन्नित्यर्थः । सापदेशं सकपटम् । यतिवेषच्छलेनेत्यर्थः । तत्र तत्र तेषु तेषु स्थानेषु । भवता त्वया अभिज्ञातमवगतम् । (२३) अभाषि कथितम् । भुवः पृथिव्याः भ्रमणे पर्यटनविषये बली समर्थस्ते- न । प्राञ्जलिना वद्धाञ्जलिनेति तेनेत्यस्य विशेषणम् । देव राजन् । आदायाङ्गीकृत्य निर्दोषं दोषवर्जितम् । वेषं यतिरूपम् । तत्र मालवेन्द्रनगरे । गूढतरमतिशयेन गूढं यथा स्यात्तथा । उदन्तजातं वृत्तान्तसमूहम् । (२४) स्वसैनिकानां निजभटानामायुष्मत्ताया आयुष्यस्यान्तरायो विघ्नस्तस्मिन् करके कहा- हे स्वामिन् ! आपके द्वारा पूजार्ह कोई संन्यासी आपसे भेंट करने द्वार पर आकर उपस्थित हुए हैं । (२१) राजाज्ञा होनेपर द्वारपाल उस संन्यासीको राजसभामें राजाके पास ले आया । (२२) राजाने उसे देखकर तथा भली भाँति यह ज्ञात करके कि यह तो हमारा गुप्तचर है, राजसभासे सभी नौकर-चाकरोंको हटवा दिया । पुनः मन्त्रियोंसहित प्रणाम करके हँसकर पूछा-हे यतिवर ! इस छद्मवेशमें देशमें विचरण करते हुए आपने जो बात जानी हो वह कह दें । (२३) पृथ्वीभ्रमणमें समर्थ उस यतिने प्राञ्जलि होकर कहा-'हे देव ! आपकी आज्ञाको शिरोधार्य करके मैं इस निर्दोष वेषको धारणकर मालवेशके नगरमें प्रविष्ट हुआ । वहाँपर गुप्तरूपसे निवासकर समस्त वृत्तान्तको ज्ञात करके आया हूँ । (२४) वृत्त यह है कि अभिमानी मानसार युद्धमें अपने वीरोंके नाशसे तथा आपदा१