दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 14 of 474
Read in context१४ दशकुमारचरितम् । [ पूर्वपीठिकायां पराजयमनुभूय वैलक्ष्यलक्ष्यहृदयो वीतदयो महाकालनिवासिनं कालीवि- लासिनमनश्वरं महेश्वरं समाराध्य तपःप्रभावसंतुष्टादस्मादेकवीरारातिघ्नीं भयदां गदां लब्ध्वात्मानमप्रतिभटं मन्यमानो महाभिमानो भवन्तमभि- योक्तुमुद्युङ्क्ते । ततः परं देव एव प्रमाणम्' इति । ( २५ ) तदालोच्य निश्चिततत्कृत्यैरमात्यै राजा विज्ञापितोऽभूत्— 'देव, निरुपायेन देवसहायेन योद्धुमराविरायाति । तस्मादस्माकं युद्धं सांप्रतमसांप्रतम् । सहसा दुर्गसंश्रयः कार्यः' इति । ( २६ ) तैर्बहुधा विज्ञापितोऽप्यखर्वेण गर्वेण विराजमानो राजा तद्वा- सैन्यसंहारकारिणी इति तात्पर्यम् । संपराये युद्धे । 'युद्धायत्योः संपराय इत्यमरः' । वैलक्ष्यस्य पराजयजनितदैन्यस्य लक्ष्यं विषयीभूतं हृदयं यस्य सः । वीतदयो निर्द- यः । महाकाले तदाख्यस्थाने निवासोऽस्त्यस्येति तम् । कालीविलासिनं पार्वती- वल्लभम् । अनश्वरं विनाशरहितम् । तपसः प्रभावेण सन्तुष्टात् प्रीतात् । अस्मा- न्महेश्वरात् । एकमेकसंख्यकं वीरं शूरम् अरातिं शत्रुं हन्तीति ताम् । भयदां भीति- दात्रीम् । अप्रतिभटमप्रतिद्वन्द्विनम् । महानतिशयितोऽभिमानोऽहङ्कारो यस्य सः । अभियोक्तुमाक्रमितुम् । उद्युङ्क्ते चेष्टते । देव एव भवानेव । प्रमाणं कर्त्तव्यतानि- र्णायकः । ( २५) तत्र शत्रुविषये यत्कृत्य करणीयं तन्निश्चितं निर्णीतं यस्तैः । अमात्यै- र्मन्त्रिभिः । निर्नास्त्युपायः प्रतीकारो यस्य तेन, अप्रतिकार्येणेत्यर्थः । असांप्रतमयु- क्तम् । युक्ते द्वे साम्प्रतमित्यमरः । सहसा सत्वरम् । दुर्गसंश्रयः दुर्गप्रवेशः । ( २६) बहुधा बहुप्रकारेण । अखर्वेण महता । अकृत्यमननुष्ठेयं कर्तुमनुचितं युद्धमें पराजित होकर लज्जित हो गया अतएव अति दीन होकर कायिक, वाचिक, मानसिक कष्टोंको संस्मरण करता हुआ वह महाकालनिवासी ( उज्जैनके महाकालके भव्य मन्दिरमें ) कालीविलासी अनश्वर श्रीमहेश्वरकी प्रबल आराधना करके तथा उन्हें सन्तुष्ट एवं प्रसन्न करके अपनी तपस्याके प्रभावसे उन्हीं शङ्करजीसे एक अनुपम गदा प्राप्त कर चुका है । उस गदाद्वारा वह युद्धमें प्रधान वीर सेनाधिको मार सकता है । बस, उक्त गदाके अभिमानपर वह आपसे संघर्षका उद्योग कर रहा है-इसके बाद क्या करना चाहिये इसे आप विचारलें । ( २५) इस वृत्तान्तको श्रवणकर मन्त्रियोंने विचार-विनिमयकर महाराजसे निवेदित किया-'हे देव ! जिसमें मनु-्यके सभी उपाय विफल हैं ऐसे प्रबल यत्नसे अर्थात् शङ्करजीकी गदाके प्रसादसे शत्रु युद्ध करने आ रहा है अतः ऐसे समय उनके साथ हमारा युद्ध करना निष्फल होगा । ऐसे समय दुर्गका ही आश्रयण सर्वथा श्रेयस्कर होगा ।' ( २६ ) मन्त्रियोंके बार-बार उक्त रीतिसे समझानेपर भी राजा अपने पराक्रमके गर्वपर