BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 142 of 474

Read in context
Page 142

१४४ दशकुमारचरितम् । [ उत्तरपीठिकायां विमर्दजन्म, स्मर्यमाणमधुरम् , उदीरिताभिमानमनुत्तमम् , सुखमपरोक्षं स्वसंवेद्यमेव । तस्यैव कृते विशिष्टस्थानवर्तिनः कष्टानि तपांसि, महान्ति दानानि, दारुणानि युद्धानि, भीमानि समुद्रलङ्घनादीनि च नराः समाच- रन्ति' इति । ( १७ ) निशम्यैतन्नियतिबलान्नु तत्पाटवान्नु स्वबुद्धिमान्यान्नु स्व- नियममनादृत्य तस्यामसौ प्रासजत् । सा सुदूरं मूढात्मानं च तं प्रवहणेन नीत्वा पुरमुदारशोभया राजवीथ्या स्वभवनमनैषीत् । अभूच्च घोषणा स्मर्यमाणमपि मधुरं—यस्य स्मरणेऽपि माधुर्यं का कथा तस्य साक्षादनुभवे इति भावः । उदीरिताभिमानम्-उद्दीपिताहङ्कारम् । अनुत्तमं श्रेष्ठम् । न विद्यते उत्तमं यस्मात्तदिति विग्रहः । अपरोक्षं—प्रत्यक्षम् । स्वसंवेद्यं स्वयमेवानुभवनीयं नत्वन्यवाक्येनेति शेषः । सर्वमेतत् सुखमित्यस्य विशेषणम् । तस्यैव-सुखस्यैव । कृते निमित्तम् । विशिष्टस्थानवर्त्तिनः-प्रसिद्धतीर्थादिचेत्रवासिनः । नरा इत्यस्य विशेषणम् । दारुणानि भयानकानि । भीमानि भयंकराणि । समाचरन्ति-कुर्वन्ति । ( १७ ) निशम्य-श्रुत्वा । एतत्-काममंजरीवाक्यम् । नियतिबलात्-दैवप्रभा- वात् । तत्पाटवात्-तस्याः काममंजर्याः पाटवाच्चातुर्यात् । स्वस्य मरीचेरित्यर्थः । बुद्धिमान्यात्-मतिदौर्बल्यात् । सर्वत्र नु वितर्के । स्वनियमं-मुनिजनोचित-तपश्च- रणादिकम् । अनादृत्य-परित्यज्य । तस्यां गणिकायाम् । असौ-मरीचिः । प्रासजत् आसक्तोऽभवत् । सा-काममञ्जरी अनैषीदित्यस्य कर्तृपदम् । सुदूरं अतिदूरवर्त्ति । पुरमित्यस्य विशेषणम् । मूढात्मानं-मुग्धचित्तम् । तं-मरीचिम् । प्रवहणेन यानविशेषेण । नीत्वेत्यस्य दुहादित्वात् तं पुरञ्चेति कर्मद्वयम् । उदार- शोभया-प्रशस्तसौन्दर्यंशालिन्या । राजवीथ्या-राजमार्गेण । स्वभवनं काममंजरी- परस्पर आलिंगन-चुम्बन आदिसे उत्पन्न होता है । स्मरण करने में यह बड़ा ही मधुर लगता है । यह अभिमानको प्रोत्साहन देता है और आनन्दसे उत्तम वस्तु और कोई है ही नहीं । यह प्रत्यक्ष सुख अनुभवगम्य है । इसीके निमित्त स्थान विशेष में रहनेवाले लोग तरह-तरहके कष्ट सहते, तप करते, बड़े बड़े दान देते, भयानक युद्ध करते और विकराल समुद्र लाँघने आदिका दुष्कर कर्म करते हैं । ( १७ ) उसके ये वचन सुन करके दैवबलसे, उस वेश्याके कौशलसे अथवा बुद्धि मन्द पड़ जानेके कारण उन मुनिराजने अपने नियमोंको त्याग दिया और काममंजरीमें आसक्त हो गये । तदनन्तर उन मूढात्मा मुनिको कर्णीरथपर बिठा करके उत्कृष्ट शोभा- सम्पन्न राजवीथीसे चल करके अपने नगरके भवनमें ले गयी उसी दिन राजदरबारमें Nepal Sanskrit University, Balmeeki Campus, Kathmandu

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · Page 142 of 474 · BharatKosha