भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 143, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 143

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १४५

‘श्वः कामोत्सवः’ इति । उत्तरेद्युः स्नातानुलिप्तमारचितमञ्जुमालमारब्ध- कामिजनवृत्तं निवृत्तस्ववृत्ताभिलाषं क्षणमात्रे गतेऽपि तया विना दूय- मानं तमृद्धिमता राजमार्गेणोत्सवसमाजं नीत्वा क्वचिदुपवनोद्देशे युवति- जनशतपरिवृतस्य राज्ञः संनिधौ समासद् त् स्मितमुखेन तेन ‘भद्रे’ भग- वता सह निषीद’ इत्यादिष्टा सविभ्रमं कृतप्रणामा सस्मितं न्यषीदत् । (१८) तत्र काचिदुत्थाय बद्धाञ्जलिरुत्तमाङ्गना ‘देव, जितानया- हम् । अस्यै दास्यमद्यप्रभृत्यभ्युपेतं मया’ इति प्रभुं प्राणंसीत् । विस्मय-

गृह्ण । घोषणा डिण्डिमादिना प्रचारः । श्वः—आगामिदिने । उत्तरेद्युः—परदिने । स्नातानुलिप्तं आदौ स्नातः पश्चादनुलिप्तस्तम् । स्नानानन्तरं चन्दनादिना लिप्तसर्वाङ्गमित्यर्थः । आरचिता परिहिता मञ्जुर्मनोहरा माला येन तम् । आरब्धं प्रक्रान्तं कामिजनस्य विलासिनो वृत्तम्याचरणं येन । कामुकवद्व्यवहरन्तमित्यर्थः । निवृत्तोऽपगतः स्ववृत्तस्य निजाचारस्य तपोनुष्ठानरूपस्याभिलाषो यस्य तम् । क्षणमात्रे मुहूर्त्तमात्रे । तया काममञ्जर्या । दूयमानं-दुःखमनुभवन्तम् । तस्या दर्शनं विना क्षणमात्रमपि स्थातुमपारयन्तमित्यर्थः । एतानि तमित्यस्य विशेषणानि । तं मरीचिम् । ऋद्धिमता—समृद्धेन । उत्सवसमाजं क्रीडासभाम् । युवतिजनेति— तरुणगणिकागणवेष्टितस्य । राज्ञः—चम्पापतेः सिंहवर्मणः । समासद्त् आगतवती । तेन राज्ञा । भगवता मुनिना । निषीद—उपविश । आदिष्टा अनुमता । सविभ्रमं— सविलासम् । (१८) तत्र उत्सवसमाजे । काचिद् अनिर्दिष्टनाम्नी । देव-राजन् । अनया- काममञ्जर्या । अस्यै-एतदर्थम् । काममञ्जर्या इत्यर्थः । दास्यं—दासीत्वम् । अभ्यु-

घोषणा हुई कि, कल कामोत्सव मनाया जायगा ।' दूसरे दिन महर्षि मरीचिने स्नान करके सुगन्धित तेल लगाया । सुन्दर माला पहनी । इस तरह कामी पुरुषों जैसा वानक बनाया । उस समय वे अपने पूर्ववृत्त (ऋषिजीवन) को एकदम भूल गये । क्षणमात्रके लिए भी काममंजरीका वियोग होनेसे वे विह्वल हो उठते थे । इसी समय वह वेश्या समृद्धिसम्पन्न राजमार्ग से चल करके उनको, सैकड़ों युवतियोंसे आवेष्टित महाराजके पास किसी उपवनमें विद्यमान, राजदरवारमें ले गयी । राजा काममंजरीको देख करके मुसकराये और उन्होंने कहा—'भद्रे ! भगवान् मरीचिके साथ बैठो' महाराजकी यह आशा पा करके उसने भावभंगीके साथ प्रणाम किया और मन्द-मन्द मुसकाती हुई बैठ गयी । (१८) इसी समय एक उत्तम श्रेणीकी स्त्री हाथ-जोड़ करके उठ खड़ी हुई और बोली—'देव ! इसने मुझे जीत लिया । आजसे मैं इसको दासी हो गयी ।' यह कह