दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 236 of 474
Read in context२३६ दशकुमारचरितम् । [ उत्तरपीठिकायां नवकुसुमकोरकपुलकलाञ्छितं प्रत्यग्रप्रवालपटलपाटलं कपाटमुद्घाट्य प्राविक्षम् । (२०) तत्र चासीत्स्वास्तीर्णं कुसुमशयनम् , सुरतोपकरणवस्तुगर्भाश्च कमलिनीपलाशसम्पुटाः, दन्तमयस्तालवृन्तः, सुरभिसलिलभरितश्च भृङ्गा- रः । समुपविश्य मुहूर्तं विश्रान्तः परिमलमतिशयवन्तमाघ्रासिषम् । अश्रौ- षं च मन्दमन्दं पदशब्दम् । श्रुत्वैव सङ्केतगृहान्निर्गत्य रक्ताशोकस्कन्ध- पार्श्वव्यवहिताङ्गयष्टिः स्थितोऽस्मि । पुष्पमुकुला एव पुलका रोमाञ्चास्तैर्लाञ्छितं चिह्नितम् । प्रत्यग्रेति-प्रत्यग्रं नवोद्गतं यत्प्रवालपटलं पल्लवसमूहस्तेन पाटलं श्वेतरक्तवर्णम् । कपाटविशेषणे एते । कपाटं द्वाराच्छादनम् । उद्घाट्य-उन्मोच्य । (२०) तत्र माधवीलतामण्डपे । स्वास्तीर्णं-सुष्ठु यथा तथा आस्तीर्णं कृतास्तरणम्-सुस्थापितं वा कुसुमशयनं-पुष्परचितशय्या । सुरतेति-सुरतस्य रतिक्रीडाया उपकरणानि साधनानि वस्तूनि द्रव्याणि स्रक्चन्दनताम्बूलादीनि गर्भे मध्ये येषां ते तथाविधाः । कमलिनीपलाशसंुपुटाः पद्मपत्ररचितद्रोण्यः । दन्तमयः-गजदन्तनिर्मितः । तालवृन्तः व्यजनम् । सुरभिसलिलभरितः सुगन्धोद- कपूर्णः । भृङ्गारो जलपात्रविशेषः । मुहूर्तं क्षणकालम् । विश्रान्तः अपगतश्रमः । परिमलं गन्धम् । अतिशयवन्तम् अत्युत्कृष्टम् । आघ्रासिषम् आघ्रातवान् । मन्द- मन्दं-धीरम् । पदशब्दं चरणध्वनिम् । श्रुत्वैव श्रवणमात्रमेव । संकेतगृहात् अत्र माधवीलतामण्डपात् । रक्ताशोकेति रक्ताशोकस्य स्कन्धः काण्डस्तस्य पार्श्वेन पार्श्वभागेन व्यवहिता तिरोहिता अङ्गयष्टिर्देहलता यस्य सः । लताओंसे परिरम्भित एवं नवीन फूलोंके मुकुलोंसे पुलकित ( रोमाञ्चित ) चिह्नित है तथा नवोद्गत पल्लवोंके समुदायोंसे रक्तवर्णी हो रहे हैं ऐसे गर्भगृहके किवाड़ोंको खोल करके मैंने उसमें प्रवेश किया । (२०) उस गर्भागारमें सुन्दर तोषक तकियासे-सुसज्जित पुष्पशय्या पड़ी है। कमलिनीके पत्तोंके दोनोंमें चन्दन, पान, माला आदि रतिक्रीड़ाकी वस्तुएँ सजी धरी हुई हैं । हाथीदाँतके बने पंखे भी रखे हुए हैं । सुगन्धित जलसे परिपूर्ण-जलपात्र ( कलश ) रखा हुआ है । उस गर्भागारमें मैंने प्रवेश करके क्षणभर विश्राम लिया । इत्र आदि सुगन्धियाँ खूब सूँधी । धीर गम्भीर चरणध्वनि सुनाई पड़ी । चरणध्वनिके सुनते ही मैं उस गर्भागार ( संकेतगृह ) से निकला और लाल अशोकके झुण्डोंके बगलमें अपनी देहरूपी लताको छिपा करके खड़ा हो गया ।