दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 254 of 474
Read in contextतत्त्वयापि तस्मिन्संरम्भो न कार्यः' इति । त इमे सर्वमाभिज्ञानिकमुप- लभ्य 'स एवायम्' इति निश्चिन्वाना विस्मयमानाश्च मां महादेवीं च प्रशंसन्तो मन्त्रबलानि चोद्घोषयन्तो बन्धनात्पितरौ निष्क्रामय्य स्वं राज्यं प्रत्यपादयन् अहं च तया मे धात्र्या सर्वमिदं ममाचेष्टितं रहसि पित्रोरव- गमय्य प्रहर्षकाष्ठाधिरूढयोस्तयोः पादमूलमभजे । (३६) अभज्ये च यौवराज्यलक्ष्म्या तदनुज्ञातया । प्रसाधितात्मा देवपादविरहदुःखदुर्भगान्भोगांन्निर्विशन्भूयोऽस्य पितृसखस्य सिंहवर्मणो
न्तसीरे । 'संरम्भः-कोपः । ते इमे-नगरवृद्धादयः । आभिज्ञानिकमभिज्ञानमिति स्वार्थे ठक् परिचयोत्पादकं चिह्नम् । उपलभ्य-ज्ञात्वा । अयं पुरो दृश्यमानः सः विकटवर्मैव । निश्चिन्वानाः निर्णयं कुर्वन्तः । विस्मयमानाः साश्चर्याः । महादेवीं- कल्पसुन्दरीम् । मन्त्रबलानि-मन्त्रप्रभावान् । उद्घोषयन्तः-प्रचारयन्तः । बन्धना- त्कारागृहात् । पितरौ-मातरं पितरञ्च । निष्क्रामय्य मोचयित्वा । प्रत्यपादयन्- प्रायच्छन् । तया-पूर्ववर्णितया । धात्र्या-वृद्धतापस्या । तद्द्वारेणेत्यर्थः । ममाचे- ष्टितं-मत्कृतं कार्यम् । पित्रोः मातापित्रोः अवगमय्य-ज्ञापयित्वा । प्रहर्षेति-प्रहर्षस्य आनन्दस्य काष्ठामवधिमधिरूढयोः प्राप्तवतोः । तयोः पित्रोः । पादमूलं-चरणत- लम् । अभजे आश्रितवान् । (३६) अभज्ये-असेव्ये-आश्रितोऽभवमित्यर्थः तदनुज्ञातया-ताभ्यां माता- पितृभ्यामनुमतया । प्रसाधितात्मा सफलप्रयत्नः कृतकृत्य इति यावत् । 'आत्मा यत्नो धृतिर्बुद्धिरित्यमरः । देवपादेति-देवपादस्य भवच्चरणयुगलस्य विरहदुःखेन विच्छेदक्लेशेन दुर्भगान् अप्रियान् । भोगान् । उपभोग्यविषयान् । निर्विशन्-उप- भुञ्जानः । पितृसखस्य तातमित्रस्य । लेख्यात्-पत्रात् । चम्पाभियोगं-चम्पा-
वे नगर-निवासी मन्त्रिगण समझ गये कि 'यह वही राजा है।' ऐसा निश्चय होनेपर वे सब आश्चर्यान्वित हो कर मेरी और रानी कल्पसुन्दरीकी प्रशंसा करने लगे । मन्त्रके प्रभावका प्रचार करने लगे । मेरे माता-पिताको उन लोगोंने कारागारसे निकाल कर अपने प्राचीन राज्यपर अधिरूढ करा दिया । मैंने भी यह सब वृत्तान्त अपनी उस वृद्ध तापसी (धात्री) से एकान्तमें कह दिया । माता-पिताको भी यह समाचार जता दिया । जब माता-पिता आनन्दकी चरम सीमामें (अपना राज्य करने लगे) तब मैं उनके चरणों की सेवामें लगा । (३६) उन पूज्य माता-पिताकी आज्ञासे, मैंने युवराज-पदरूपी लक्ष्मीको प्राप्त किया । कृतकृत्य हो करके भी मैंने आपके विरहसे उत्पन्न क्लेशसे उन सब सुखोंको