दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 255 of 474
Read in contextलेख्याच्चण्डवर्मणश्चम्पाभियोगमवगम्य ‘शत्रुवधो मित्ररक्षा चोभयमपि करणीयमेव’ इत्यलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम् । अभवं च भूमिस्त्वत्पादलक्ष्मीसाक्षात्क्रियामहोत्सवानन्दराशेः’ इति । ( ३७ ) श्रुत्वैतद्देवो राजवाहनः सस्मितमवादीत्—‘पश्यत, पारत- ल्पिकमुपधियुक्तमपि गुरुजनबन्धव्यसनमुक्तिहेतुतया दुष्टामित्रप्रमापणा- भ्युपायतया राज्योपलब्धिमूलतया च पुष्कलावर्थधर्मावप्यरीरधत् । किं हि बुद्धिमत्प्रयुक्तं नाभ्युपैति शोभाम्’ इति । अर्थपालमुखे निधाय क्रमणम् । शत्रुवधः - चण्डवर्मनिधनम् । मित्ररक्षा-सिंहवर्मणो रक्षणं करणीयमव- श्यकर्त्तव्यम् । अलघुना-महता । लघुसमुत्थानेन-क्षिप्रगामिना । सैन्यचक्रेण- सेनासमूहेन । अभ्यसरम्-अभ्यगच्छम् । अभवं-जातः भूमिः पात्रं भाजनमिति यावत् । त्वत्पादेति-तत्र भवतो राजवाहनस्येत्यर्थः । पादलक्ष्म्याश्चरणशोभायाः साक्षात्क्रिया प्रत्यक्षीकरणमेव महोत्सवरतेन आनन्दराशिः प्रहर्षातिशयस्तस्य । ( ३७ ) एतत्-इमं वृत्तान्तम् । पारतल्पिकं-पारदारिकं-परदारापहरणमिति यावत् । अरीरधदित्यस्याः क्रियायाः कर्त्तृपदमेतत् । उपधियुक्तं छलपूर्णम् । गुरुजनेति-गुरुजनस्य पित्रादेर्बन्धः बन्धनमेव व्यसनं विपत् तस्माद् या मुक्ति- र्मोक्षस्तस्य हेतुतया कारणत्वेन । दुष्टस्यामित्रस्य शत्रोः प्रमापणस्य वधस्य अभ्युपायतया साधनतया । राज्येति-राज्यस्योपलब्धिः प्राप्तिस्तस्या मूलतया निदानतया । पुष्कलौ-प्रचुरौ । अर्थधर्मौ-अर्थश्च धर्मश्च तौ धर्मार्थौ । अरीर- धत् साधयामास । राध् संसिद्धावित्यस्य लुङि रूपम् । भाषार्थस्तु यदनेनोपहार- वर्मणा विकटवर्माणं कपटेन निहत्य तत्पत्नी गृहीता तत्तु पातकमेवाचरितं तेनेति सत्यम् किन्तु पितृबन्धनमोचनशत्रुनाशस्वराज्यप्राप्त्यादिबहुसत्कर्मसाधकतया दोषोऽपि गुणायैव संवृत्त इति । किं-किं वस्तु । बुद्धिमत्प्रयुक्तं बुद्धिमता कृतम् । अप्रिय जाना । पुनः पिताजीके मित्र सिंहवर्माके लेखसे चण्डवर्माका चम्पापुर पर आक्र- मण ज्ञात किया । शत्रु का वध और मित्रका रक्षण ये दोनों अवश्य करना चाहिये । इसी विचारसे मैं विपुल सैन्य बलके साथ अति शीघ्रतापूर्वक आपके पास आया हूँ । आपकी चरण शोभाके प्रत्यक्षीकरणसे महोत्सवरूप आनन्दराशिका मैं पात्र बन गया हूँ । ( ३७ ) देव राजवाहन यह वृत्तान्त सुन कर बोले-‘देखिये, परस्त्रीका अपहरण करना छलपूर्ण है । अर्थात्-छलियोंका कार्य है । परन्तु, माता-पिता आदि गुरु-जनोंको कारागार आदिके क्लेशसे छुड़ाना और दुष्ट शत्रुको योग्य उपायसे मारना तथा राज्य प्राप्त करना आदि बातोंके साधनमें धर्म और अर्थकी आराधना हुई है । ( इससे-परस्त्री