BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 398 of 474

Read in context
Page 398

३६८ दशकुमारचरितम् । [ उत्तरपीठिकायां

कतः सरस्तटं तीर्थासन्निकृष्टं केनचित्खननसाधनेनाकार्षम् । घनशिले- ष्टिकाच्छन्नच्छिद्राननं तत्तीरदेशं जनैरशङ्कनीयं निश्चित्य, दिनादिस्नान- निर्षिक्तगात्रश्च नक्षत्रसंतानहारयष्ट्यग्रग्रथितरत्नम्, क्षणदान्धकारगन्ध- हस्तिदारणैककेसरिणम्, कनकैलशृङ्गरङ्गलास्यलीलानटम्, गगन- सागरघनतरङ्गराजलङ्घनैकनक्रम्, कार्याकार्यसाक्षिणम्, सहस्रार्चिषं सहस्राक्षदिगङ्गनाङ्गरागरागायितकिरणजालम्, रक्तनीरजाञ्जलिनाराध्य निजनिकेतनं न्यशिश्रियम् ।

तादृशम् तथा तीर्थानां जलावतरणसोपानानां असन्निकृष्टं दूरवर्त्ति एवम्भूतं सर- स्तटं केनचित् खननसाधनेन खनित्रेणाकार्ष कृतवानहम् । घनेति-घनाभिर्नि- विडाभिः शिलाभिः पाषाणैः इष्टिकाभिश्च छन्नमाच्छादितं छिद्रस्य सुरङ्गाया आननं मुखं यस्य तादृशं तत्तीरदेशं जनैर्लोकैः अशङ्कनीयं जनानां शङ्का न भविष्यती- त्येवं निश्चित्य अवधार्य दिनादौ प्रभाते निर्षिक्तं स्नानेन शुद्धीकृतं गात्रं शरीरं येन तादृशोऽहं सहस्रार्चिषं दिवाकरं किम्भूतमित्याह-नक्षत्रेत्यादि । नक्षत्राणां सन्तानः समूह एव हारयष्टिर्मौक्तिकलता तस्या अग्रग्रथितं सम्मुखगुम्फितं यद्- रत्नं तत्स्वरूपं, तथा क्षणदाया रजन्याः अन्धकार एव गन्धहस्ती मत्तगजस्तस्य दारणे भेदने एककेसरिणं अद्वितीयसिंहस्वरूपम्, तथा कनकैलस्य सुमेरुपर्वत- स्य शृङ्गशिखरमेव रङ्गः नृत्यशाला तत्र या लास्यलीला नृत्यादिक्रिया तस्या नटं नर्त्तकस्वरूपं, तथा गगनमेव सागरस्तस्य घना मेघा एव तरङ्गाणामूर्मिणां राजिः तस्य लङ्घने अतिक्रमणे एकनक्रं अद्वितीयग्राहस्वरूपं, कार्याणां कृत्यानाम- कार्याणामकृत्यानाञ्च साक्षिणं सर्वद्रष्टारम् । तथा सहस्राक्षस्य इन्द्रस्य दिक्पूर्वा सै वाङ्गना कामिनी तस्या अङ्गरागेण अङ्गविलेपनेन रागायितं रक्तवदाचरितं किर- णजालं स्वमयूखसमूहो येन तादृशं रक्तनीरजानां कोकनदानां अञ्जलिना अर्घ्यदानेनेत्यर्थः-आराध्य सम्पूज्य निजनिकेतनं स्वगृहं न्यशिश्रियं गतवानह- मिति शेषः ।

ईंटोंसे ऐसा बन्द कर दिया जिसमें लोगोंको शङ्का भी न होवे । इस तरीकेकी यह सुरङ्ग लोगोंसे न जानी जायगी ऐसा निश्चय हो जाता अर्थात्-जब सुरङ्गका छिद्र खूब ढक जाता तब प्रभात कालमें ही स्नान करके देह धोकर मैं, नक्षत्रसमूहरूपी मौक्तिकलताके मुख्य मणि, रात्रिके अन्धकाररूपी मत्तगजके विदारणमें अद्वितीय सिंह, सुमेरु पर्वतके शिखररूपी नृत्यलीलाके नर्त्तकरूप, आकाशरूपी सागरकी मेघरूपी तरङ्गोंको लांघनेमें मकर (ग्राह), कार्य और अकार्यके द्रष्टा, सहस्रदीधिति, इन्द्रकी प्राचीदिशारूपी