दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 5 of 474
Read in contextCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ५
र्त्या रचितदिगन्तरालपूर्त्या कीर्त्याऽभितः सुरभितः, स्वर्लोकशिखरोरु- चिररत्न रत्नाकर वेलामेखला यितधरणीरमणीसौभाग्यभोगभाग्यवान्, अनव- रतयागदक्षिणारक्षितशिष्टविशिष्टविद्यासम्भारभासुरभूसुरनिकरः, विर- चितारातिसंतापेन प्रतापेन सतततुलितवियन्मध्यहंसः, राजहंसो नाम घनदर्पकन्दर्पसौन्दर्यसोदर्यहृद्यनिरवद्यरूपो भूपो बभूव ।
ऐरावतश्च नीरं जलञ्च क्षीरं दुग्धञ्च गिरिशस्य महादेवस्याट्टहासो महाहास्यञ्च काशः काशपुष्पञ्च तैर्निकाशा तुल्या मूर्त्तिः स्वरूपं यस्यास्तया, रचिता कृता दिगन्तरा- लानां दिगवकाशानां पूर्त्तिः पूरणं यया तया, समस्तदिग्व्यापिन्येत्यर्थः, कीर्त्या यशसा अभितः समन्तात् सुरभितो मनोज्ञः, स्वः स्वर्गो लोक आश्रयो येषां ते स्व- र्लोका देवास्तेषां शिखरेषु शिरःसु उरूणि महान्ति रुचिराणि मनोहराणि रत्नानि मणयो यस्य तथाभूतस्य रत्नाकरस्य सागरस्य वेलया तटभूम्या मेखलायिता मेखला काञ्ची तयेवाचरिता, वेष्टिता धरणी पृथिव्येव रमणी कामिनी तस्याः सौभाग्यस्य सौन्दर्य- स्यैश्वर्यस्य च भोगे उपभोगे भाग्यवान् भाग्यशाली, ससागराया धराया अधीश्वर इत्यर्थः । अनवरतानां निरन्तरमनुष्ठितानां यागानां यज्ञानां दक्षिणाभिर्दत्तद्रव्यै रक्षितः पालितः शिष्टानां सदाचारपरायणानां विशिष्टेन अन्यविलक्षणेन विद्यासम्भा- रेण शास्त्रज्ञानातिरेकेण भासुराणां प्रदीप्तानां भूसुराणां ब्राह्मणानां निकरः समूहो येन सः । विरचितः उत्पादितः । अरातीनां शत्रूणां सन्तापो दुखं येन तथाविधेन प्रतापेन कोषदाण्डजतेजसा सततमनारतं तुलितः समीकृतो वियन्मध्यहंसो मध्याह्न- सूर्यो येन सः । प्रतापेन सूर्यसदृश इत्यर्थः । राजहंसो नाम राजहंसाभिधानो, घनः सान्द्रो दर्पोऽहङ्कारो यस्य तस्य महाभिमानवतः कन्दर्पस्य कामस्य यत्सौन्दर्यं रूपं तस्य सोदर्यं सदृशं हृद्यं मनोरमं निरवद्यमनिन्दनीय निर्दोषमिति यावत् रूपं सौन्दर्यं यस्य स तथाभूतो भूपो राजा बभूव आसीत् ।
सेनासमुद्रको मन्थन करनेके लिए मन्दराचल पर्वतके समान थे। अमरावतीके आँगनमें विहार करनेवाली अप्सराओंसे प्रशंसित एवं अगणित शरत्कालीन चन्द्र तथा कुन्द फूल, कपूर एवं तुषार पुष्पकी माला, कमलका मूल-दण्ड, हंस, ऐरावत (इन्द्रगज), जल, दुग्ध, शङ्करजी का अट्टहास, कैलासपर्वत, काश नामक घास, आदिके सदृश स्वच्छ मूर्त्तिवाले दशों दिशाओंके अन्तरालको पूर्ण करनेवाली, कीर्तिसे अति मनोहर, सुमेरु पर्वतके शिखरके विशाल एवं सुन्दर रत्नोंसे संयुक्त रत्नाकरकी वेलारूपी करधनी (मेखला) से परिवेष्टित पृथ्वीरूपी अँगना के सौभाग्यका उपभोग करनेवाले, निरन्तर किये गये यज्ञोंकी दक्षिणाओंके द्वारा सदाचारी, उद्भट एवं विद्वान् ब्राह्मणोंके रक्षक रिपुओंके सन्तापकारी, प्रतापमें मध्याह्नकालिक सूर्यके समान, स्वरूपाभिमानी कामदेवके निज रूपसे तिरस्कृतकर्त्ता राजहंस नामक राजा हुए ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu