दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 4 of 474
Read in contextCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ४ दशकुमारचरितम्। [ पूर्वपीठिकायां (१) अस्ति समस्तनगरीनिकषायमाणा शश्वदगण्यपण्यविस्तारित- मणिगणादिवस्तुजातव्याख्यातरत्नाकरमाहात्म्या मगधदेशशेखरीभूता पुष्पपुरी नाम नगरी। (२) तत्र वीरभटपटलोत्तरङ्गतुरङ्गकुञ्जरमकरभीषणसकलर्रिपुगणक- तकजलनिधिमथन मन्दरायमाणसमुद्दण्डभुजदण्डः, पुरन्दरपुराङ्गणवनवि- हरणपरायणतरुणगणिकागणजेगीयमानयातिमानया शरदिन्दुकुन्दघनसा- रनीहारहारमृणालमरालसुरगजनीरक्षीरगिरिशाट्टहासकैलासकाशनीकाशम्- (१) अस्तीत्यस्य पुष्पपुरी नाम नगरीत्यनेनान्वयः । समस्तानां सकलानां नगरीणां निकषः कषणोपल इवाचरतीति निकषायमाणा सर्वश्रेष्ठादर्शभूता। (अत्रो- पमालङ्कारः) शश्वन्निरन्तरम् अगण्यैरसंख्यैः पण्यैः विक्रेयैः विस्तारितैर्विक्रयार्थं प्रसारितैः मणिगणादिवस्तुजातैस्तत्तद्द्रव्यसमूहैः व्याख्यातं प्रकटितं रत्नाकरस्य समुद्रस्येव माहात्म्यं महिमा यस्याः सा, मगधदेशस्य कीकटस्य शेखरीभूता शिरो- भूषणरूपा, पुष्पपुरी कुसुमपुरं नाम नगरी अस्ति वर्त्तते यस्याः साम्प्रतिकं नाम पाटलिपुत्रमिति ज्ञेयम् । (२) तत्र पुष्पपुर्यां, वीराणां शूराणां भटानां योद्धॄणां पटलेन समूहेन उत्तरङ्गः उद्गतवीचिस्तथा-तुरङ्गा अश्वाः कुञ्जरा गजास्ते मकरा नक्रा इव तैर्भीषणो भयङ्कर- स्तथा सकलानां रिपुगणानां शत्रुमण्डलानां कटकं सैन्यं जलनिधिः समुद्र इव तस्य मथने आलोदने मन्दरायमाणः मन्दराचल इवाचरन् मन्थनदण्डस्वरूपः, समुद्दण्डः समुद्यतो भुजो बाहुर्दण्ड इव यस्य सः । पुरन्दरपुरस्य अमरावत्या अङ्गणवने चत्व- रोद्याने नन्दनवने इति यावत्, विहरणपरायणेन भ्रमणशीलेन तरुणगणिकागणेना- प्सरःसमूहेन जेगीयमानया मुहुर्गीतया, अति सातिशयं मानं परिमाणं यस्या- स्तया अपरिमितया, शरदिन्दुः शरच्चन्द्रश्च कुन्दं माघ्यकुसुमञ्च घनसारः कर्पूर- श्च नीहारो हिमञ्च हारो मौक्तिकस्रक् च मृणालं बिसञ्च मरालो हंसश्च सुरगज लिखूँगा। परन्तु यथाशक्ति अर्थालंकारोंको दिखलानेकी चेष्टा करूँगा। [ अब मगधदेशाधिपति राजहंसके आधारसे दशकुमारचरित नामक संस्कृत उपन्यासके निर्माता महाकवि दण्डी प्रथमतः पुष्पपुरी नामकी मगधेश्वरकी राजधानीका वर्णन करते हैं।] (१) भूमण्डलकी समस्त नगरियोंको जाँचनेकी कसौटी तथा असंख्य दूकानोंको फैलाये हुए रत्नादिके द्वारा समुद्रकी मणियोंके महत्त्वको अर्थात् रत्नाकर शब्दको प्रकाशित करानेवाली मगधदेशकी शिरोभूषण पुष्पपुरी नामकी नगरी है। (२) उसमें एकबार राजहंस नामक नृपति आविर्भूत हुए। उनका विशाल बाहुदण्ड समस्त शत्रुओंके वीर-भटोंके समूह, चञ्चल घोड़े तथा बड़े-बड़े गजरूपी मकरसे भयंकर Nepal Sanskrit University, Balmeeki Campus, Kathmandu