गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
by महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी
Source: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (origin)
Page 268 of 600
Read in context२३० गोपथब्राह्मणे पूर्वभागे प्र० ५ । क० १० ॥ १०) कैसे इनका मिथुन [ स्त्री पुरुषों का कर्तव्य कर्म ] निरन्तर होता है—हिङ्कार [ वैदिक व्यवहार ] से, यह कहना चाहिये । १० । ( सः एषः संवत्सरे यज्ञक्रतून् उपैति ११) यही पुरुष संवत्सर में यज्ञ कर्मों को स्वीकार करता है । ( यः एवं संवत्सरे एतान् यज्ञक्रतून् उपैति स वेद यज्ञेन सात्मा सलोकः भूत्वा देवान् अप्येति इति ब्राह्मणम् १२) जो इस प्रकार संवत्सर में इन यज्ञ कर्मों को स्वीकार करता है, वह जानता है और यज्ञ के साथ एक आत्मा वाला और एक निवास वाला होकर दिव्य गुणों को पाता है—यह ब्राह्मण [ ब्रह्मज्ञान ] है ॥ ६ ॥ भावार्थः—विधिपूर्वक कर्म करने से मनुष्य कृतकार्य होता है ॥ ६ ॥ कण्डिका १० ॥ देवा ह वै सहस्रसंवत्सराय दीदीक्षिरे, तेषां पञ्चशतानि संवत्सराणां पर्युपे- तान्यामन्त्रयेदं सर्वं शुश्रुवुर्ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि ते देवा इह सामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति तद्यातयाममध्ये यज्ञमपश्यंस्तेनायातया- म्यमापेदे व्युष्टिरासीत्तां पञ्चस्वपश्यदृचि यजुषि साम्नि शान्तेऽथ घोरे, ता वा एताः पञ्च व्याहृतयो भवन्ति ओं श्रावयास्तु श्रौषड् यज ये यजामहे वौषडिति । १ । ते देवा इह सामिवासुरूप तं यज्ञक्रतुं जानीम यः सहस्रसंवत्सरस्य प्रतिमा को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति तत एतन्तापश्चितं सहस्रसंवत्सरस्या- ऽञ्जस्यमपश्यंस्ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि स खलु द्वादशमासान् दीक्षाभिरेति द्वादशमासानुपसद्भिर्द्वादशमासान् सुत्याभिरथ यद् द्वाद- शमासान् दीक्षाभिरेति द्वादशमासानुपसद्भिस्तेनैतावन्त्यर्कावाप्नोति अथ यद् द्वादशमासान् सुत्याभिस्तेनेदं महदुक्थमवाप्नोति । २ । ते देवा इह सामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा को हि तस्मै मनुष्यो यः सहस्र- संवत्सरेण यजेतेति तत एतं संवत्सरन्तापश्चित्तमाञ्जस्यमपश्यंस्ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि । ३ । ते देवा इह सामिवासुरुप तं यज्ञ- क्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा को हि तस्मै मनुष्यो यः सहस्रसंव- त्सरेण यजेतेति तत एतं द्वादशाहं संवत्सरस्याञ्जस्यमपश्यंस्ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि स खलु द्वादशाहं दीक्षाभिरेति द्वादशाह- मुपसद्भिर्द्वादशाहं सुत्याभिरथ यद् द्वादशाहं दीक्षाभिरेति द्वादशाहमुपसद्भिस्ते- नैतावन्त्यर्कावाप्नोत्यथ यद् द्वादशाहं सुत्याभिस्तेनेदं महदुक्थमवाप्नोति । ४ । ते देवा इह सामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति तत एतं पृष्ठ्यं षडहं द्वादशाह- सनेः ) उपासना—अणू । भक्ति कर्मभिः ( मिथुनम् ) स्त्रीपुरुषाभ्यां कर्तव्य-कर्म ( यज्ञक्रतून् ) ऋतुः कर्मनाम—निघ० २ । १ । यज्ञकर्माणि ( उपैति ) स्वीकरोति ॥