हारीत संहिता (महर्षि आत्रेय-हारीत मुनि संवाद - सम्पूर्ण ६ स्थान सटीक)
Harita Samhita of Sage Harita with Hindi Commentary
by महर्षि हारीत / आत्रेय मुनि
Page 7 of 548
Read in contextश्रीधन्वन्तरिस्तवः । आविर्बभूव जगतः परिपालनाय कृत्वा करे कलशमम्बुनिधेः सुधायाः । यश्चामरत्वकरणाय दिवि स्थितानां धन्वन्तरिं तमहमाद्यविदं समीडे ॥ १ ॥ ये नाम केविदिह ते प्रथयन्त्यवज्ञां विद्यानवद्यगदने विमुखाग्रगास्ते । वाचां भटाः स्वभवने विभवो भवन्तु प्राप्स्यन्ति किं सुपदर्वी तव शिष्यकाणाम् ॥ २ ॥ दृष्टेदस्ति किमपिप्रथितुं प्रभूताः सन्तीह तस्य करणे किल तेऽभिभूताः। त्वन्नाथ किन्तु रचनाचतुराढ्यचक्र- चूडामणिप्रखरकान्तिरसीति सत्यम् ॥ ३ ॥ अद्यापि यद्यपि विदो विचरन्ति वैद्याः सन्तस्त्वनन्तमहतामपि ते भवन्तः । सन्तीह किन्तु बहवः किल वैद्यकल्पा धन्वन्तरेऽवगतसत्त्वहरा हि दुःखम् ॥ ४ ॥ वाचामगोचरचरित्र न चित्रमत्र यन्नास्तिका ननु भवन्ति चिकित्सकाज्ञाः । अम्भोमलापनयनप्रभविष्णुकोऽपि पङ्कं प्रसादयति किं कतकः कदाचित् ॥ ५ ॥ अष्टाङ्गप्रङ्गरहितान्विहिताभिमाना- न्मूढान्दरिद्रहृदयांश्च दयाविहीनान् । वैद्यान्नियम्य वितरिष्यति यः सुभावं धन्वन्तरिः स भगवानवतु त्रिलोकीम् ॥ ६ ॥ कालीप्रसादकविना विहितः स्तवोऽयं धन्वन्तरेर्भगवतः करुणामयस्य । श्रेयस्तनोतु भवतां भवतां बुधानां धुन्वन्सुधामरझरीवचनस्तुतानाम् ॥ ७ ॥ कालीप्रसाद शास्त्री त्रिपाठी ।