कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 117 of 876
Read in contextयमचन्द्र धरं मत्वा शिरश्छेदभयाद्द्रुतम् । शिक्षिता लोकयात्रेति गर्जन्स निरगात्ततः ॥६०॥ तत्सकाशं ततोऽगच्छदनासो प्रेषितोऽभवत् । वृत्तान्तं यावदस्तस्मै सोऽपि क्षतमयापत ॥६१॥ साम सान्त्व मयोक्तं तं वेदस्यावसरोऽत्र कः । किं वा धाराधिरूढे हि जाड्यं वदजडे जने ॥६२॥ एव विहस्य गत्वा च तनोक्ता सा विलासिनी । द्विपवस्य पशोरस्य तत्सुवर्णतृणं त्यज ॥ ६३ ॥ हसन्त्या च तया त्यक्तं सुवर्णं प्राप्य स द्विजः । पुनर्जातमिवात्मानं मन्वानो गृहमागत ॥६४॥ एवंप्रायाण्यहं पश्यन् कौतुकानि पदे पदे । प्राप्तवान् राजभवनं महेन्द्रसदनोपमम् ॥६५॥ धतश्चान्तः प्रविष्टोऽहं शिष्यैरथ निवेदितः । भास्वान्स्थितमद्राक्षं राजानं सातवाहनम् ॥६६॥ शर्ववर्मप्रभृतिभिर्मन्त्रिभिः परिवारितम् । रत्नसिंहासनासीनममरैरिव वासवम् ॥६७॥ विहितस्वस्तिकारं मामुपविष्टमथासने । राजा कृतादरं चैव शर्ववर्मादयोऽस्तुवन् ॥६८॥ अयं ह्य भुवि ख्यातः सर्वविद्याविशारदः । गुणाढ्य इति नामास्य यथार्थमतएव हि ॥६९॥ इत्यादि तत्स्तुतिं श्रुत्वा मन्त्रिभिः सातवाहनः । प्रीतः क्षपवि सत्कृत्य मन्त्रित्वे मां न्ययोजयत् ॥७०॥ अथाहुं राजकार्याणि चिन्तयन्नवस सुखम् । शिष्यानध्यापयंस्तत्र कृतदारपरिग्रहः ॥७१॥ कदाचित्कौतुकाद् भ्राम्यन्स्वरं गोदावरीतटे । देवीकृतिरितिख्यातामुद्यानं दृष्टवानहम् ॥७२॥ तच्चातिरम्यमालोक्य क्षितिस्यमिव मन्दनम् । उद्यानपालः पृष्टोऽभून्मया तत्र तदागमम् ॥७३॥ १ पृष्ठे बाङ्घट = सम्पन्नः समृद्ध इत्यर्थः ।