कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 179 of 876
Read in context११८ कथासरित्सागरे साथ युक्त्या जगादैनं वाप्यां स्नानमितः कुरु। आदायैनं च मज्जस्व खड्गं ग्राहभयापहम् ॥५१॥ तथेति वाप्यां मग्नः सन् श्रीदत्तो जाह्नवीतटात्। तस्मादेव समुत्तस्थौ यस्मात्पूर्वमवातरत् ॥५२॥ खड्गाङ्गुलीयकं पश्यन्पातालादुत्थितोऽथ सः। विषण्णो विस्मितश्चासीद् वञ्चितोऽसुरकन्यया ॥५३॥ ततस्तान्सुहृदोऽन्वेष्टुं स्वगृहाभिमुखं ययौ। गच्छंश्चिष्टूरकाख्यं च मित्रं मार्गे ददर्श सः ॥५४॥ स चोपैत्य प्रणम्याथ नीत्वैकान्तं च सत्वरम्। तं पृष्टस्वजनोदन्तमेवं निष्ठुरकोऽब्रवीत् ॥५५॥ गङ्खान्तस्थां तदा भग्नमन्विष्य दिवसान्वहून। स्वशिरंसि शुचा छेत्तुमभूम वयनुद्यताः ॥५६॥ न पुत्राः साहस कार्य जीवन्नेष्यति वः सखा। इत्यन्तरिक्षाद् वाणी नस्तमुद्योगं न्यवारयत् ॥५७॥ ततश्च त्वत्पितुः पार्श्वमस्मासु प्रतिगच्छताम्। मार्गे सत्वरमभ्येत्य पुमानेकोऽब्रवीदिदम् ॥५८॥ नगरं न प्रवेष्टव्यं युष्माभिरिह साम्प्रतम्। यतो वल्लभशक्तिः स विपन्नोऽद्य महीपतिः ॥५९॥ दत्तो विक्रमशक्तिश्च राज्ये सम्भूय मन्त्रिभिः। प्राप्तराज्यः स चान्वेषु कालनेमेरगाद् गृहम् ॥६०॥ धीमन् क्व स ते पुत्र इति क्षामपनिर्भरैः। घस्रैरुच्छ्रसंश्चाप्येनं प्राह वेद्मीत्यथापतत् ॥६१॥ प्रच्छादितोऽमुना पुत्र इति तं निपूदितः। कालनेमिः स शूखायां राज्ञा चौर इति क्रुधा ॥६२॥ तद्दृष्ट्वा तस्य भार्यायाः स्वयं हृदयमस्फुटत्। पापं पापानुरागेणक्रूरं हि क्रूरकर्मणाम् ॥६३॥ तन चान्विष्यते द्रष्टुं सोऽपि विक्रमशक्तिना। धीदत्तस्तद्वयस्याश्च यूयं तद्गम्यतामितः ॥६४॥ इति तेनोदिताः पुंसा शोकार्तास्ते निजां भुवम्। बाहुपात्यान्य पञ्च सम्मन्त्र्योज्जयिनीं गताः ॥६५॥ प्रच्छन्नस्यापिनाद्याहं स्वदद्यमिह तं मग। तदेहि तावद् गच्छावस्तत्रैव सुहृदन्तिकम् ॥६६॥