कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 185 of 876
Read in context१४४ कथासरित्सागरः सोऽपि तस्यास्तदङ्गुल्यां निक्षिपारङ्गुलीयकम्। ततो जजाप विद्यां च तेन प्रत्युज्जिजीव सा ॥९७॥ अथ सवजने दृष्टे धीदत्तस्तुतितत्पर। तत्रैव ज्ञातवृत्तान्तो राजा बिम्बचिराययौ ॥९८॥ सेनासौ सखिभि सार्धमगृहीताङ्गुलीयकः । प्रत्याजगाम धीदत्तो भवनं बाहुशालिनः ॥९९॥ तत्र तस्मै सुवर्णादि यत्प्रीतः प्राहिणोन्नृपः। तद्बाहुशालिनः पित्रे समग्रं स समर्पयत् ॥१०० ॥ अथ तां चिन्तयन्कान्तां स तथा पर्यतप्यत। यथा किङ्कर्यतामूढा वयस्यास्तस्य जज्ञिरे ॥१०१॥ ततो भावनिका नाम राजपुत्र्या प्रिया सखी। अङ्गुलीयार्पणव्याजात्तस्यान्तिकमुपाययौ ॥१०२॥ उवाच चाम मस्सख्यास्तस्याः सुभग! साम्प्रतम्। त्वं वा प्राणप्रदो भर्त्ता मृत्युर्वाप्येष निश्चयः ॥१०३॥ इत्युक्ते भावनिकया धीदत्तः स च सापि च। बाहुशाली च तेऽन्ये च मन्त्रं सम्भूय चक्रिरे ॥१०४॥ हरामो निभृतं युक्त्या राजपुत्रीमिमां वयम्। निवासहेतोर्गूप्तं च गच्छामो मधुरांमित ॥१०५॥ इति सम्मन्त्रित सम्यक्कार्यसिद्धय च संविदि। अन्योन्यं स्थापितायां सा ययौ भावनिका ततः ॥१०६॥ अन्यद्युर्बाहुशाला च वयस्यमितयाचत। वणिज्याव्यपदशन जगाम मधुरां प्रति ॥१०७॥ स गच्छन्स्थापयामाम वाहनानि पदे पदे। राजपुत्र्यभिमारार्थं गूढानि चतुराणि च ॥१०८॥ धीदत्तोऽपि ततः काञ्चिद्बहुहिम्ना सहितां स्त्रियम्। माम राजमुतावास पाययित्वा मधु न्यधात् ॥१०९॥ ततोऽत्र दीपोद्देशेन दत्वाग्नि वासवेश्मनि। प्रच्छन्नं भावनिकया निन्ये राजसुता बहिः ॥११०॥ तदाण तां च सम्प्राप्य धीदत्तः स बहिःस्थितः । प्राप्तप्रस्थितस्य निकटं प्राहिणोद् वाहनासिनः ॥१११॥ इतो मित्रद्वयं यास्या पश्चाद्भावनिका तया।